2023-05-18 02:11:00 by ambuda-bot
This page has not been fully proofread.
२५८
दशकुमारचरितम् ।
[अष्टमः
च शाययित्वा, सर्वस्वं स्वीकरिष्यन्ति । तेभ्योऽपि घोरतराः पाष-
ण्डिनः पुत्रदारशरीरजीवितान्यपि मोचयन्ति । यदि कश्चित्प-
जातीयो नास्यै मृगतृष्णिकायै हस्तगतं त्यक्तुमिच्छेत् । तमन्ये परि-
वार्याहुः – 'एकामपि काकिणीं कार्षापणलक्षमापादयेम, शस्त्रा-
हते सर्वशत्रून्घातयेम, एकशरीरिणमपि मर्त्य चक्रवर्तिनं विद-
धीमहि, यद्यस्मदुद्दिष्टेन मार्गेणाचर्यते इति । स पुनरिमान्प्र-
त्याह – 'कोऽसौ मार्गः ?' इति । पुनरिमे ब्रुवते – 'ननु चतस्रो
राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति । तासु तित्रत्रयी-
वार्तान्वीक्षिक्यो महत्यो मन्दफलाञ्च तास्तावदासताम् ।
अधीष्व तावद्दण्डनीतिम् । इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे
षड्भि: लोकसहस्रैः संक्षिप्ता । सैवेयमधीत्य सम्यगनुष्ठीयमाना
यथोक्तकर्मक्षमा' इति । स ' तथा ' इत्यधीते । शृणोति च । तत्रैव
जरां गच्छति । तत्तु किल शास्त्रं शास्त्रान्तरानुबन्धि । सर्व-
मेव वाङ्मयमविदित्वा न तत्त्वतोऽधिगंस्यते । भवतु कालेन
बहुनाल्पेन वा तदर्थाधिगतिः । अधिगतशास्त्रेण चादावेव पुत्र-
दारमपि न विश्वास्यम् । आत्मकुक्षेरपि कृते तण्डुलैरियद्भिरिया-
नोदनः संपद्यते । इयत ओदनस्य पाकायैतावदिन्धनं पर्याप्त-
-
मिति मानोन्मानपूर्वकं देयम् । उत्थितेन च राज्ञा क्षालिता-
पदचन्द्रिका ।
1
:।
पटुजातीयः । 'प्रकारवचने जातीयर् (५१३१६९) कार्षापणम् । 'कार्षापणः कार्षिके
स्यात्पणषोडशकेऽपि च' इति विश्वः । एकशरीरिणम् । एकाकिनमित्यर्थः । मर्त्य
चक्रवर्तिनं मनुष्यसमूहवर्तिनम् । आचर्यते । आचरतीत्यर्थः । अधीष्व । अङ्गीकु
वित्यर्थः । मौर्यो राजा । वाङ्मयं वाग्जालम् । समूहार्ये मद्र । 'तुलावच्छेद उन्मा-
भूषणा ।
किल निश्चये। पाखण्डिनः सर्वतोऽपभ्रष्टाः सर्ववेषधराः । पटुजातीयश्चतुरसदृशः ।
'प्रकारवचने जातीयर्' (५।३।६९) । आहुः कथयन्ति । 'ब्रुवः पञ्चानाम् (३।४।८४)
इति लटो झेरुसादेशे ब्रुव आहादेशः । काकिणी विंशद्वराटकाः । 'वराटकानां
दशकद्वयं यत्सा काकिणी' इति भास्कराचार्यः । कार्षापणलक्षणम् । 'कार्षापणस्तु
विज्ञेयस्ताम्रिकः कार्षिक: पणः' इति मनुः । वाङ्मयं वाग्जालम् । मानोन्मानम् ।
लघुदीपिका ।
पाखण्डः । सर्वतोपभ्रष्ट इत्यर्थः । पटुजातीयः । 'प्रकारवचने जातीय'
( ५१३१६९ ) । 'कार्षापणः कार्षिक: स्यात्' । पलम् । वाङ्मयं वाग्जातम् ।
समूहार्ये 'समूहवच बहुषु' (५/४/२२ ) इति मयट् । 'तुलावच्छेद उन्मानो मानः
पावा- 'पाखुण्डिनः..