This page has not been fully proofread.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
१५
 
ण्याश्रु मुञ्चन्ती वनिता विलोकिता । 'निर्जने वने किंनिमित्तं
रुद्यते त्वया ?' इति पृष्टा सा करसरोरुहैरभु प्रमृज्य सगद्दं माम-
वोचत् – 'मुने, लावण्यजितपुष्पसायके मिथिलानायके कीर्ति-
व्याप्तसुधर्मणि निजसुहृदो मगधराजस्य सीमन्तिनीसीमन्तम-
होत्सवाय पुत्रदारसमन्विते पुष्पपुरमुपेत्य कंचन कालमधिवसति
समाराधितगिरीशो मालवाधीशो मगधराजं योद्धुमभ्यगात् । तत्र
प्रख्यातयोरेतयोरसंख्ये संख्ये वर्तमाने सुहृत्साहाय्यकं कुर्वाणो
निजबले सति विदेहे विदेहेश्वरः प्रहारवर्मा जयवता रिपुणाभि-
गृह्य कारुण्येन पुण्येन विसृष्टो हतावशेषेण शून्येन सैन्येन सह
स्वपुरगमनमकरोत् । ततो वनमार्गेण दुर्गेण गच्छन्नधिकबलेन
शबरबलेन रंभसादभिहन्यमानो मूलबलाभिरक्षितावरोधः स महा-
निरोधः पलायिष्ट । तदीयार्भकयोर्यमयोर्धात्रीभावेन परिकल्पि-

 
क्षित्रोः" इत्यमरः । व्यक्तं कार्पण्यं दैन्यं यस्याः सा । मुञ्चन्तीत्यत्र तुदादित्वाद्वैक-
ल्पिको नुम् । निर्जने जनसंचाररहिते । करावेव सरोरुहाणि तैः । करसरोरुहाभ्या
मिति वक्तव्यम् । प्रमृज्य । 'मृजू शुद्धौ' इति धातुः । ल्यबन्तम् । सगद्दं सगद्गद-
स्वरेण । लावण्येन सौन्दर्येण जितः पुष्पसायको मदनो येन तस्मिन् । कीर्त्या
व्यापृता सुधर्मा देवसभा येन तथा । 'धर्मादनिकेवलात्' (५।४।१२४ ) इति
धर्मशब्दस्य धर्मन् । निजसुहृदः स्वमित्रस्य सीमन्तिनी वधूस्तस्याः सीमन्तमहो-
त्सवो गर्भिण्यवस्थायामनुष्ठातव्यस्य सीमन्तोन्नयनाख्यसंस्कारस्योत्सवस्तदर्थे । 'चतुर्थे
गर्भमासे सीमन्तोन्नयनम्' इति सूत्रम् । सीमन्तो यस्मिन्कर्मण्युन्नीयते तत् सीम-
न्तोन्नयनम् । पुत्राश्च दाराश्च पुत्रदारास्तैः समन्विते युक्ते । 'उपान्वध्याड्वसः '
( १९४९४८ ) इत्यनेन कालस्य कर्मत्वम् । समाराधितः सम्यक्पूजितः संतोषितो
वा गिरीशः शिवो येन सः । अभ्यगात् । 'इण् गतौ' इति धातुः । संख्ये युद्धे ।
'मृधमास्कन्दनं संख्यम्' इत्यमरः । सुहृदः साहाय्यकम् । साहाय्यमेव साहा-
व्यकम् । स्वार्थे कप् । निजबले आत्मसैन्ये । विदेहे । मृत इत्यर्थः । 'असति
विधेये' इति पाठे 'विधेयो विनयग्राही' इति कोशाद्विनयातिक्रमणशील इति भावः ।
विदेहानामीश्वरः प्रभुः । शून्येन रिक्तेन । 'शुनः संप्रसारणं वा च दीर्घत्वम्
( ग. ९६ ) इति यत् । दुःखेन गन्तुं शक्यो दुर्गस्तेन । अधिकं बलं यस्य
तेन । शबराणां बलं सैन्यं तेन । रभसाद्वेगेन । अभिहन्यमानः । कर्मणि शानच् ।
मूलबलं प्रधानसैन्यं तेनाभिरक्षितोऽवरोधः शुद्धान्तो येन सः । महान्निरोधो यस्य
तथा । पलायिष्ट । 'अय गतौ इति धातुः । परेत्युपसर्गस्थरस्य स्थाने 'उपसर्गस्या-
पाठा०-१ 'व्याप्त'. २ 'असति विधेये.