2023-08-31 13:21:32 by Lakshmainarayana achar

This page has been fully proofread twice.

एतदाकर्ण्य 'स्थान एव गुरुभिरनुशिष्टम् । तथा क्रियते' इत्यन्तः-
पुरमविशत् । तां च वार्तां पार्थिवेन प्रमदासंनिधौ प्रसङ्गेनोदीरिता-
मुपनिशम्य समीपोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्य-
वाद्यादिष्वबाह्यो बाह्यनारीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परमर्मान्वेषणपरः परिहासयिता परिवादरुचि: पैशुन्य पण्तिड: सचिवमण्डलादप्युत्कोचहारी सकलदुर्नयोपाध्यायः कामतन्त्रकर्ण धारः कुमारसेवको विहारभद्रो नाम स्मितपूर्वं व्यज्ञपयत् – 'देव, दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमकस्मादुच्चावचैरुपप्रलोभनैः कदर्थयन्तः स्वार्थ साधयन्ति धूर्ताः । तथा हि । केचित्प्रेत्य किल लभ्यैरभ्युदयातिशयैराशामुत्पाद्य, मुण्डयित्वा शिरः, बद्ध्वा दर्भरज्जुभिः, अजिनेनाच्छाद्य, नवनीतेनोपलिप्य, अनशनं
 
पदचन्द्रिका ।
 
एतदिति । स्थाने युक्तमित्यर्थः । अनुशिष्टमुपदिष्टम् । चित्तानुवृत्तिर्मनोगतं तत्र कुशलः । प्रसादवित्तो राजप्रसादेन ख्यातः । गीतं गानम् । नृत्यं नर्तनम् । वाद्यं चतुर्विधम् । अबाह्योऽभिन्नः । तन्मय इति भावः । अयन्त्रितमुखोऽनियतमुखः । बहुभाषीत्यर्थः । 'भङ्गी स्याद्वक्रभाषितम्' इति वैजयन्ती । परमर्म परगोप्यम् । परिवादो निन्दा । उत्कोचो गुप्तद्रव्यादिग्रहणम् ।
दुर्नयानामुपाध्यायोऽध्यापकः । कामतन्त्रे कामशास्त्रे । कर्णधारो नाविकः । कुमारसेवकः कुमारावस्थायाः प्रभृति सेवकः । कदर्थयन्तो निन्दन्तः । तथाहीति । प्रेत्य जन्मान्तरे, 'प्रेत्यामुत्र भवान्तरे' इत्यमरः । किलेत्यलीके । अजिनेन चर्मणा । अनशनं निराहारम् । पाषण्डिनोऽसंबद्धवादिनः । सर्वतोभ्रष्टा इत्यर्थः ।
 
भूषणा ।
 
शाधि शिक्षय । 'शासु अनुशिष्टौ' । 'शा हौ' ( ६।४।३५ ) इति शादेशः । स्थाने युक्तम् । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । प्रसादवित्तः प्रसादेन प्रसिद्धः । 'वित्तविज्ञातविश्रुताः' इत्यमरः । भङ्गी वक्रोक्तिः । 'भङ्गी स्याद्वक्रभाषितम्' इति वैजयन्ती ।
उत्कोच उपदा । कर्णधारो नाविकः । 'कर्णधारस्तु नाविकः' इत्यमरः । कुमारसेवकः कुमारावस्थायाः प्रभृति सेवकः । प्रेत्य जन्मान्तरे । 'प्रेत्यामुत्र भवान्तरे' इत्यमरः ।
 
लघुदीपिका ।
 
वैजयन्ती । शाधि शिक्षय । 'शासु अनुशिष्टौ' । 'हुझल्भ्यो हेर्भिः' (६।४।१०१ ) । 'शा हो ' ( ६।४।३५ ) इति शासेः शादेशः । प्रसादवित्तो राजप्रसादप्रसिद्धः । 'भङ्गी स्यादल्पभाषितम्' इति वैजयन्ती । 'कर्णधारस्तु नाविकः' । कुमारसेवकः कुमारावस्थायाः प्रभृति सेवकः । प्रेत्यामुत्र भवान्तरे । किलापरमार्थे ।