This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२५७
 
एतदाकर्ण्य 'स्थान एव गुरुभिरनुशिष्टम् । तथा क्रियते' इत्यन्तः-
पुरमविशत् । तां च वार्ता पार्थिवेन प्रमदासंनिधौ प्रसङ्गेनोदीरिता-
मुपनिशम्य समीपोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्य-
वाद्यादिष्वबाह्यो बाह्यनारीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशा-
रदः परमर्मान्वेपणपरः परिहासयिता परिवादरुचि: पैशुन्य पण्तिड:
सचिवमण्डलादप्युत्को चहारी सकलदुर्नयोपाध्यायः कामतन्त्र कर्ण -
धारः कुमारसेवको विहारभद्रो नाम स्मितपूर्व व्यज्ञपयत् – 'देव,
दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमकस्मादुच्चावचै-
रुपप्रलोभनैः कदर्थयन्तः स्वार्थ साधयन्ति धूर्ताः । तथा हि । केचि-
त्प्रेय किल लभ्यैरभ्युदयातिशयैराशामुत्पाद्य, मुण्डयित्वा शिरः,
बता दर्भरज्जुभिः, अजिनेनाच्छाद्य, नवनीतेनोपलिप्य, अनशनं
 
*
 
पदचन्द्रिका ।
 
एतदिति । स्थाने युक्तमित्यर्थः । अनुशिष्टमुपदिष्टम् । चित्तानुवृत्तिर्मनो-
गतं तत्र कुशलः । प्रसादवित्तो राजप्रसादेन ख्यातः । गीतं गानम् ।
नृत्यं नर्तनम् । वाद्यं चतुर्विधम् । अबाह्योऽभिन्नः । तन्मय इति भावः ।
अयन्त्रितमुखोऽनियतमुखः । बहुभाषीत्यर्थः । 'भङ्गी स्याद्वक्रभाषितम्' इति
वैजयन्ती । परमर्म परगोप्यम् । परिवादो निन्दा । उत्कोचो गुप्तद्रव्यादिग्रहणम् ।
दुर्नयानामुपाध्यायोऽध्यापकः । कामतन्त्रे कामशास्त्रे । कर्णधारो नाविकः ।
कुमारसेवकः कुमारावस्थायाः प्रभृति सेवकः । कदर्थयन्तो निन्दन्तः । तथा
हीति । प्रेल जन्मान्तरे, 'प्रेत्यामुत्र भवान्तरे' इत्यमरः । किलेत्यलीके । अजिनेन
चर्मणा । अनशनं निराहारम् । पाषण्डिनोऽसंबद्धवादिनः । सर्वतोभ्रष्टा इत्यर्थः ।
 
भूषणा ।
 
शाधि शिक्षय । 'शासु अनुशिष्टौ' । 'शा हौ' ( ६४ । ३५ ) इति शादेशः । स्थाने
युक्तम् । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । प्रसादवित्तः प्रसादेन प्रसिद्धः । 'वित्तवि-
ज्ञातविश्रुताः' इत्यमरः । भङ्गी वक्रोक्तिः । 'भङ्गी स्याद्वक्रभाषितम्' इति वैजयन्ती ।
उत्कोच उपदा । कर्णधारो नाविकः । 'कर्णधारस्तु नाविकः' इत्यमरः । कुमारसेवकः
कुमारावस्थायाः प्रभृति सेवकः । प्रेत्य जन्मान्तरे । 'प्रेत्यामुत्र भवान्तरे' इत्यमरः ।
लघुदीपिका ।
 
वैजयन्ती । शाधि शिक्षय । 'शासु अनुशिष्टौ' । 'हुझल्भ्यो हेर्भिः' (६४।१०१ ) ।
'शा हो ' ( ६।४।३५ ) इति शासेः शादेशः । प्रसादवित्तो राजप्रसादप्रसिद्धः ।
'भजी स्यादल्पभाषितम्' इति वैजयन्ती । 'कर्णधारस्तु नाविकः' । कुमार-
सेवकः कुमारावस्थायाः प्रभृति सेवकः । प्रेत्यामुत्र भवान्तरे । किलापरमार्थे ।