2023-08-23 11:46:27 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभू-
यते । न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वर्तिन्यः
सर्वाः स्थितीः संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च
स्वामिनमात्मानं च भ्रंशयते । आगमदीपदृष्टेन खल्वध्वना
सुखेन वर्तते लोकयात्रा । दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यव-
हितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति । तेन हीनः
सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसा-
मर्थ्यात् । अतो विहाय बाह्यविद्यास्वभिषङ्गमागमय दण्डनीतिं
कुलविद्याम् । तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासन:
शाधि चिरमुदधिमेखलामुर्वीम्' इति ।
पदचन्द्रिका ।
कर्मसु कार्येषु । स्वैरात्मीयैः । परिभूयते पराभवं प्राप्यते । अवज्ञातस्यावगणितस्य योगोऽलभ्यलाभः । क्षेमं लब्धसंरक्षणम् । 'अप्राप्तप्रापणं योगः क्षेमं प्राप्तस्य रक्षणम् । द्वयं च साधयेद्भूपः प्रजानां विधिवत्प्रदः ॥' इति । इतो लोकादिहलोकात् । अमुतः परलोकात् । भ्रंशयते पातयति । आगम एव दीपस्तेन
दृष्टेन । अध्वना मार्गेण । लोकयात्रा लोकस्थितिः । अप्रतिहतवृत्ति न प्रतिहता कुण्ठिता वृत्तिर्यस्येति । तेन । शास्त्रचक्षुषेत्यर्थः । हीनो रहितः । सतोर्विद्यमानयोः । विशालयोर्महतोः । बाह्यविद्यावितर- विद्यासु । अभिषङ्गं सङ्गम् । 'अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशने ऽपि च' इति वैजयन्ती । आगमय । प्रापयेत्यर्थः । तदर्थानु-
ष्ठानेन । कुलविद्यानुष्ठानेनेत्यर्थः । आवर्जिता प्राप्ता । अस्खलितशासनोऽहताज्ञः । शाधि शिक्षय । 'शासु अनुशिष्टौ' ॥
भूषणा ।
कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद्गह्णात्यसौ करान्' । कामन्दकोऽपि — 'अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ स्वर्गानन्त्याय धर्मोऽयं सर्वेषां वर्णिलिङ्गिनाम् । तस्याभावे
च लोकोऽयं संकरान्नाशमाप्नुयात् ॥ सर्वस्यास्य यथान्यायं भूपतिः संप्रवर्तकः । तस्याभावे धर्मनाशस्तदभावे जगच्च्युतिः ॥' इति । चाणक्योऽपि -- 'राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजा ॥" इति । अभिषङ्गः सङ्गः । 'अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशनेऽपि च' इति वैजयन्ती
लघुदीपिका ।
स्थितिर्मर्यादा । अभिषङ्गः सङ्गः । 'अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशनेऽपि च' इति
[^१]G. 'क्षेमसाधनाय'.