This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२५५
 
रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः, प्रगल्भ-
वागभाषत – 'तात, सर्वैवात्मसंपदमिजनात्प्रभृत्यन्यूनैवात्रभवतो
लक्ष्यते । बुद्धिश्च निसर्गपनी कलासु नृत्यगीतादिषु चित्रेषु च
काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते । तथाप्य-
सावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेषु अनग्निसंशोधितेव हेमजाति-
नतिभाति बुद्धिः । बुद्धिशून्यो हि भूभृत्युच्छ्रितोऽपि परैरध्या-
रुह्यमाणमात्मानं न चेतयते । न च शक्तः साध्यं साधनं वा विभज्य
 
पदचन्द्रिका ।
 
नीत्यां राजनीत्याम् । रहस्येकान्ते । प्रगल्भा प्रौढा वाग्यस्येति स तथा । तातेति
संबोधनम् । अभिजनात् । 'कुलान्यभिजनान्वयौ' इत्यमरः । अतिशयेन पटुः
पछी । विस्तरो विस्तृतत्वम् । इतरेभ्योऽन्येभ्यः । प्रतिविशिष्यते । विशिष्टा
भवतीत्यर्थः । तथापीति । हेमजाति: सुवर्णजातिः । बुद्धिशून्यो बुद्धिहीनः ।
अत्युच्छ्रितोऽपि महानपि । परैः शत्रुभिः । अध्यारुह्यमाणमासाद्यमानम् । न
चेतयते । विना संज्ञानेन स्मारयत इत्यर्थः । सायं कार्यम् । साधनं कारणम् ।
 
भूषणा ।
 
सहिष्णुता ॥ प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता। कुलं शीलं दमश्चेति गुणाः
संपत्तिहेतवः ॥ इति । याज्ञवल्क्योऽपि - 'ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनो-
रिषु । स्याद्राजा मृत्यवर्गे च प्रजासु च यथा पिता ॥ इति । प्राण्य जीविला 'अन
प्राणने' । पुरुषायुषम् । 'अचतुर-' (५१४१७७) इति सूत्रे निपातितम् । तदायतिस्तत्प्र
भावः । 'स्यात्प्रभावेऽपि चायतिः' इत्यमरः । आत्मसंपत् पुरुषगुणाः । ते च समनन्त-
रमेव 'शास्त्रं प्रज्ञा-' इति श्लोकद्वयेन दर्शिताः । संस्कारो वासना । अर्थशास्त्रेष्वान्वी-
क्षिक्यादिषु । साध्यं विपक्षभूतम् । साधनं सहायभूतम् । योगक्षेमाराधनाय । अल-
ब्धलाभो योगः । लब्धरक्षणं क्षेमः । तयोराराधनाय साधनाय । 'अप्राप्तप्रापणं योगः
क्षेमः प्राप्तस्य रक्षणम् । द्वयं च साधयेद्भूपः प्रजानां विधिवत्प्रदः ॥' इति । 'आराधनं
साधने स्यादवाप्तौ तोषणेऽपि च' इत्यमरः । स्थितिर्मर्यादा । संकिरेयुः संकीर्णाः
कुर्युः । आत्मानं स्वामिनमित्यादि । तथा च याज्ञवल्क्यः – 'अरक्ष्यमाणाः
लघुदीपिका ।
 

 
यशसि च श्लोकः' । प्राण्य जीवित्वा । तदायतिस्तत्प्रभावः । 'स्यात्प्रभावेऽपि चाय-
तिः' । आत्मसंपत्पुरुषगुणाः । 'क्षेत्रज्ञ आत्मा पुरुषः' । 'संपदापानस्त्रिया स्यात्समृ-
द्विगुणयोरपि (?)' इति हलायुधः । 'संस्कारो वासना मता' । अर्थशास्त्रेष्वान्वीक्षि-
क्यादिषु । साध्यं विपक्षभूतम् । योगक्षेमयोराराधनाय । अलब्धलाभो योगः, लब्ध-
परिरक्षणं क्षेमः । यदाहुः - 'अप्राप्तप्रापणं योगः क्षेमः प्राप्तस्य रक्षणम् । द्वयं च साध-
येद्धूपः प्रजानां विधिवत्प्रदः ॥' इति । 'आराधनं साधने स्यादवाप्तौ तोषणेऽपि च '