2023-08-23 11:18:29 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
नदीष्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते
सुतरां प्रत्युपकर्ता, [^१]प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता
सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः
प्रतिकर्ता दैवमानुषीणामापदाम्, षाड्डुण्योपयोगनिपुणः, मनुमा-
र्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः, पुण्यवर्मा नामासीत् । स
पुण्यैः कर्मभिः प्राण्य पुरुषायुषम्, पुनरपुण्येन प्रजानामगण्यता-
मरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् । स
सर्वगुणैः समृद्धोऽपि दैवाद्दण्डनीत्यां नात्यादृतोऽभूत् । तमेकदा
पदचन्द्रिका ।
सर्गे कप्रत्ययः । 'निनदीभ्यां स्नातेः कौशले' (८।३।८९) इति मूर्धन्यादेशः । नेदिष्ठो निकटवर्ती । 'अन्तिकबाढयोर्नेदसाधौ' (५।४।६३) इति साधु । प्रत्यवेक्षा गवेषणम् । कोशो भाण्डागारम् । वाहनान्यश्वादीनि । प्रतिकर्ता प्रतीकारकर्ता । षाड्गुण्यं षड्गुणाः ।
चातुर्वर्ण्यादिपाठात्स्वार्थे ष्यञ्प्रत्ययः । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः'इत्यमरः । चतुर्वर्णा एव चातुर्वर्ण्यम् । पुण्यश्लोकः पवित्रकीर्तिः । 'पद्ये यशसि च श्लोकः' इत्यमरः । पुण्यवर्मेति नाम राजा । स इति । प्राण्य । जीवित्वेत्यर्थः । पुरुषायुषं पूर्णमायुः । अपुण्येन ।
पापेनेत्यर्थः । अगण्यत । 'गण संख्याने' । अमरेषु देवेषु । तदनन्तरम् । पुण्यवर्मोत्तरमित्यर्थः । अनन्तवर्मेति ।तदायतिस्तस्मात्पुण्यवर्मण आयतिः प्रभावो यस्येति स तथा । 'स्यात्प्रभावेऽपि चायतिः' इत्यमरः । दैवाददृष्टात् । दण्ड-
भूषणा ।
कौशले इति मूर्धन्यादेशः नेदिष्ठः । 'नेदिष्ठमन्तिकतमम्' इत्यमरः । प्रत्यवसितोपभोक्ता । षाड्गुण्यं षड्गुणाः।चातुर्वर्ण्यादिपाठात्स्वार्थे ष्यञ् । गुणाः संध्यादयः ।'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहम-
न्त्रजाः ॥' इत्यमरः । चतुर्वर्णा एव चातुर्वर्ण्यम् । पुण्यश्लोकः पुण्ययशाः । 'पद्ये यशसि च श्लोकः' इत्यमरः । अतिसत्त्व इत्यादिनयवर्णने कामन्दक:- न्यायेनार्जनमर्थस्य वर्धनं रक्षणं तथा । सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ नयविक्रमसंपन्नः सूत्थानश्चिन्तयेच्छ्रियम् । नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ॥
शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता । उत्साहो वाग्मिता दार्ढ्यमापत्क्लेश-
लघुदीपिका ।
इति मूर्धन्यः । षाड्गुण्यं षड्गुणाः । चातुर्वर्ण्यादिपाठात्स्वार्थे ष्यञ्प्रत्ययः । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः' । चतुर्वर्णा एव चातुर्वर्ण्यम् । पुण्यश्लोकः पुण्ययशाः । 'पद्ये
[^१]G. 'प्रत्यवसिता',
सुतरां प्रत्युपकर्ता, [^१]प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता
सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः
प्रतिकर्ता दैवमानुषीणामापदाम्, षाड्डुण्योपयोगनिपुणः, मनुमा-
र्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः, पुण्यवर्मा नामासीत् । स
पुण्यैः कर्मभिः प्राण्य पुरुषायुषम्, पुनरपुण्येन प्रजानामगण्यता-
मरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् । स
सर्वगुणैः समृद्धोऽपि दैवाद्दण्डनीत्यां नात्यादृतोऽभूत् । तमेकदा
पदचन्द्रिका ।
सर्गे कप्रत्ययः । 'निनदीभ्यां स्नातेः कौशले' (८।३।८९) इति मूर्धन्यादेशः । नेदिष्ठो निकटवर्ती । 'अन्तिकबाढयोर्नेदसाधौ' (५।४।६३) इति साधु । प्रत्यवेक्षा गवेषणम् । कोशो भाण्डागारम् । वाहनान्यश्वादीनि । प्रतिकर्ता प्रतीकारकर्ता । षाड्गुण्यं षड्गुणाः ।
चातुर्वर्ण्यादिपाठात्स्वार्थे ष्यञ्प्रत्ययः । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः'इत्यमरः । चतुर्वर्णा एव चातुर्वर्ण्यम् । पुण्यश्लोकः पवित्रकीर्तिः । 'पद्ये यशसि च श्लोकः' इत्यमरः । पुण्यवर्मेति नाम राजा । स इति । प्राण्य । जीवित्वेत्यर्थः । पुरुषायुषं पूर्णमायुः । अपुण्येन ।
भूषणा ।
कौशले इति मूर्धन्यादेशः नेदिष्ठः । 'नेदिष्ठमन्तिकतमम्' इत्यमरः । प्रत्यवसितोपभोक्ता । षाड्गुण्यं षड्गुणाः