2023-08-31 03:41:44 by Lakshmainarayana achar
This page has been fully proofread twice.
विदर्भो नाम जनपदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव
धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, विनीतः, विनेता प्रजा-
नाम्, रञ्जितभृत्यः, कीर्तिमान्, उदग्रो बुद्धिमूर्तिभ्याम्, उत्थान-
शीलः, शास्त्रप्रमाणः, शक्यभव्यकल्पारम्भी, संभावयिता बुधान्,
प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्,
असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदण्यवितृष्णो गुणेषु, अति-
पदचन्द्रिका ।
र्तनम्' इत्यमरः । अंशेनैकदेशेन । अत्यन्तं सत्त्वं यस्येति । अतिसत्त्वो महाबलः । सत्त्वं गुणो वा । वदान्यो बहुप्रदः । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्यमरः ।
विनीतो नम्रः । विनेता शिक्षाकर्ता । रक्षिता अनुरागं प्रापिता भृत्याः सेवका येनेति । उदग्र उन्नतः । बुद्धिर्मतिः । मूर्तिः कायः । उत्थानशीलः पौरुषस्वभावः । 'उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च ' इति विश्वः । शास्त्रमेव प्रमाणं यस्येति
स तथा । शक्यभव्यकल्पारम्भी । 'शक्यं तु सुकरं कर्म भव्यं तु जनलालितम् । कल्पं युक्तं न भङ्गेन सदैवैष समाचरेत् ॥' इति दिवाकरः । शक्यं स्वसाध्यम् । भव्यं कुशलम् । 'भावुकं भविकं भव्यं कुशलं क्षेमम्' इत्यमरः । कल्पो विधिः । 'कल्पो न्याय्ये विधौ शास्त्रे संवर्ते ब्रह्मवासरे । कल्पद्रुमे विकल्पे च' इति
महीपः । संभावयिता संभावना मानधनादिनेति । एवं सर्वत्र । असंबद्धाः परस्परामिलिताः प्रलापा निरर्थकवचनानि । 'प्रलापोऽनर्थकं वचः' इत्यमरः । अदत्तकर्णः । अश्रोतेत्यर्थः । अवितृष्णो न विगता तृष्णा यस्येति स तथा । नदीष्णो निपुणः ।
'नदीष्णाभिज्ञनिष्ठ्यूतप्रवीणनिपुणा अपि इति कोशः । नदीपूर्वात् स्नातेरातोऽनुप-
भूषणा ।
इत्यमरः । जरन्तं वृद्धम् । अतिसत्त्व इत्यादि । वदान्यो बहुप्रदः । विनेता नम्रताकारकः । उदग्र उन्नतः । उत्थानशीलः पौरुषस्वभावः । 'उत्थानं पौरुषम्' इत्यमरः । शक्यभव्यकल्पारम्भी । शक्यश्च भव्यश्च कल्पश्चारम्भस्तच्छीलः । 'शक्यं तु सुकरं कर्म भव्यं तु जनलालितम् । कल्पं युक्तं न भङ्गेन सदैवैष समाचरेत् ॥' इति
दिवाकरः । प्रभावयिता प्रभुत्वकारयिता । अवितृष्णः । सर्वदापि गततृष्ण एवेति भावः । नदीष्णो निपुणः । 'नदीष्णाभिज्ञनिष्णातप्रवीणनिपुणा अपि' । नदीपूर्वात् स्नातेः
लघुदीपिका ।
जरन्तं वृद्धम् । 'जीर्यतेरतृन्' (३।२।१०४) इत्यतृन् । वदान्यो बहुप्रदः । स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' । उत्थानशीलः पौरुषस्वभावः । 'उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च । शक्यभव्यकल्पारम्भी । शक्यश्च भव्यश्च कल्पश्चारम्भस्तच्छीलः । 'शक्यं तु सुकरं कर्म भव्यं तु जनलालितम् । कल्पयुक्तेन
भङ्गेन सदैवैष समाचरेत् ॥' इति दिवाकरः । प्रभावयिता प्रभू- कुर्वन् । नदीष्णो निपुणः । 'नदीष्णाभिज्ञनिष्णातप्रवीणनिपुणा अपि । नदीपूर्वात् स्नातेः 'आतोऽनुपसर्गे कः' ( ३।२।३ ) इति कप्रत्ययः 'निनदीभ्यां स्नातेः कौशले' ( ८।३।८९ )
२२ द० कु०