2023-08-31 03:41:56 by Lakshmainarayana achar
This page has been fully proofread twice.
अथ सोऽप्याचचक्षे–'देव, मयापि परिभ्रमता विन्ध्याटव्यां कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशार्ह: क्वचित्कू-
पाभ्याशेऽष्टवर्षदेशीयो दृष्टः । स च त्रासगद्गदमगदत् - 'महा-
भाग, क्लिष्टस्य मे क्रियतामार्य, साहाय्यकम् । अस्य मे प्राणाप-
हारिणीं पिपासां प्रतिकर्तुमुदकमुदञ्चन्निह कूपे कोऽपि निष्कलो
ममैकशरणभूतः पतितः । तमलमस्मि नाहमुद्धर्तुम्' इति । अथा-
हमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंशनालीमुखो-
द्धृताभिरद्भिः फलैश्च पञ्चषैः शरक्षेपोच्छ्रितस्य [^१]लकुचवृक्षस्य
शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमापाद्य,तरुतलनिषण्णस्तं
जरन्तमब्रवम् – 'तात, क एष बालः, को वा भवान्, कथं चेय-
मापदापन्ना ?" इति । सोऽश्रुगद्गदमगदत् - 'श्रूयतां महाभाग,
पदचन्द्रिका ।
इदानीं विश्रुतनामा कुमारः स्वचरितं वक्तुमुपक्रमते । अथानन्तर्यार्थे । स विश्रुतनामा । अक्लेशार्हः । क्लेशार्हो नेत्यर्थः । कूपो जलाशयः । अभ्याशे समीपे । अष्टवर्षदेशीयः । 'कल्पब्देश्यदेशीयर: ' ( वा ० ) इति शब्दान्न्यूनार्थे । साहाय्यकं सहायस्य भावस्तथा । पिपासा पातुमिच्छा । प्रतिकर्तुं दूरीकर्तुम् । उदञ्चन्निष्कासयन् । कोऽप्यविदितकुलनामा । निष्कलः स्थविरः । वृद्ध इति यावत् । 'निष्कलः स्थविरः समौ' इति वैजयन्ती । अथेति । व्रतत्या वल्ल्या । 'वल्ली तु व्रततिर्लता' इत्यमरः ।रज्जुस्थानीकृतयेति भावः । वंशनाली वेणुः । पञ्चषैः पञ्च षड्वा । 'संख्ययाव्यय - ' ( २।२।२५) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ संख्येये डजबहुगणात्' (५।४।७३) इति समासान्तो डच् । शरक्षेपो बाणगमनं ततोऽप्युच्छ्रितस्य । उच्चस्येत्यर्थः ।
लकुचवृक्षस्य । 'लकुचो लिकुचो डहुः' इत्यमरः । भाषया 'वडहर' इति प्रसिद्धः । जरन्तं वृद्धम् । श्रूयतामिति । जनपदो देशः । 'नीवृज्जनपदो देशविषयौ तूपव-
भूषणा ।
अष्टवर्षदेशीयः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयर: ' (वा० ) । असमाप्ताष्टवर्षः । निष्कलो वृद्धः । 'निष्कलः स्थविरः समौ' इत्यमरः । वंशनाली वेणुदण्डः । पञ्चषाः पञ्च षड्वा । 'संख्ययाव्यय - ' (२।२।२५ ) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ संख्येये डजबहुगणात्' (५।४।७३) इति समासान्तो डच् । लिकुचः । 'लकुचो लिकुचो डहुः'
लघुदीपिका ।
'निष्कल: स्थविरः समौ' इति वैजयन्ती । वंशनाली वेणुदण्डः । पञ्चषाः पञ्च षड्वा । 'संख्ययाव्यय - ' (२।२।२५) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ संख्येये डजबहुगणात्' (५।४।७३) इति समासान्तो डच् । लिकुचः । 'लकुचो लिकुचो डहुः' ।
१ 'लिकुच'.