This page has not been fully proofread.

दशकुमारचरितम् ।
 
अष्टमोच्छ्वासः ।
 
--
 
अथ सोऽप्याचचक्षे–'देव, मयापि परिभ्रमता विन्ध्या-
टव्यां कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशाई: कचित्कू-
पाभ्याशेऽष्टवर्षदेशीयो दृष्टः । स च त्रासगद्गद्मगदत् - 'महा-
भाग, विष्टस्य मे क्रियतामार्य, साहाय्यकम् । अस्य मे प्राणाप-
हारिणीं पिपासां प्रतिकर्तुमुदकमुदञ्चन्निह कूपे कोऽपि निष्कलो
ममैकशरणभूतः पतितः । तमलमस्मि नाहमुद्धर्तुम्' इति । अथा-
हमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंशनाली मुखो-
द्धृताभिरद्भिः फलैश्च पञ्चषैः शरक्षेपोच्छ्रितस्य लेकुचवृक्षस्य
शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमापाद्य, तरुतलनिषण्णस्तं
 
..
 
जरन्तमब्रवम् – 'तात, क एष बालः, को वा भवान्, कथं चेय-
मापदापन्ना ?" इति । सोऽश्रुगद्गद्गदत् - 'श्रूयतां महाभाग,
 
२५२
 
[ अष्टमः
 
पदचन्द्रिका ।
 
इदानीं विश्रुतनामा कुमारः स्वचरितं वक्तुमुपक्रमते । अथानन्तर्यायें । स विश्रुत -
नामा । अक्लेशार्हः । क्लेशाहों नेत्यर्थः । कूपो जलाशयः । अभ्याशे समीपे । अष्टवर्ष-
देशीयः । 'कल्पब्देश्यदेशीयर : ' ( वा ० ) इति शब्दाच्यूनार्थे । साहाय्यकं सहायस्य
भावस्तथा । पिपासा पातुमिच्छा । प्रतिकर्तु दूरीकर्तुम् । उदञ्चन्निष्कासयन् । कोऽप्य-
विदितकुलनामा । निष्कलः स्थविरः । वृद्ध इति यावत् । 'निष्कलः स्थविरः समौ'
इति वैजयन्ती । अथेति । व्रतत्या वलया । 'वल्ही तु व्रततिलता' इत्यमरः ।
रज्जुस्थानीकृतयेति भावः । वंशनाली वेणुः । पञ्चषैः पञ्च षड्डा । 'संख्ययाव्यय - '
( २ । २ । २५) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ संख्येये डज बहुगणात्' (५॥४/७३)
इति समासान्तो डच् । शरक्षेपो बाणगमनं ततोऽप्युच्छ्रितस्य । उच्चस्येत्यर्थः ।
लकुचवृक्षस्य । 'लकुचो लिकुचो डहुः' इत्यमरः । भाषया 'वडहर' इति प्रसिद्धः ।
जरन्तं वृद्धम् । श्रूयतामिति । जनपदो देशः । 'नीवृज्जनपदो देशविषयौ तूपव-
भूषणा ।
 
अष्टवर्षदेशीयः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयर : ' (वा० ) । असमाप्ताष्टवर्षः ।
निष्कलो वृद्धः । 'निष्कलः स्थविरः समौ इत्यमरः । वंशनाली वेणुदण्डः । पञ्चषाः
पञ्च षड्ढा । 'संख्ययाव्यय - ' (२।२।२५ ) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ संख्येये
डजबहुगणात्' (५॥४१७३) इति समासान्तो डच् । लिकुचः । 'लकुचो लिकुचो डहुः'
लघुदीपिका ।
 
'निष्कल: स्थविरः समौ'
 
इति वैजयन्ती । वंशनाली वेणुदण्डः । पञ्चषाः
पञ्च षड्ं वा । 'संख्ययाव्यय - ' (२१२१२५) इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ संख्येये
डजबहुगणात्' (५॥४॥७३) इति समासान्तो डच् । लिकुचः । 'लकुचो लिकुचो डहुः' ।
 
पाठा०-१ 'लिकुंच'.
 
w
 
4