2023-08-23 08:04:12 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

करशाखान्तरितदन्तच्छदकिसलया हर्षजलक्ले दजर्जनिरञ्जनेक्षणा
रचिताञ्जलिः 'नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं
किंचिदेतादृशम् । कथं चैतत् । कथय' इति स्नेहर्नियन्त्रणं शनैरगा-
दीत् । अहं चास्यै कार्त्स्येनाख्याय, तदाननसंक्रान्तेन संदेशेन
संजनय्य सहचर्या निरतिशयं हृदयाह्लादम् । ततश्चैतया दयितया
निरर्गलीकृतातिसत्कृतकलिङ्गनाथन्यायदत्तया संगत्यान्ध्र- [^१]कलिङ्गराजराज्यशासी तस्यास्यारिणा लिलङ्घयिषितस्याङ्ग- राजस्य साहाय्यकाया लघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शनानन्दराशिलङ्गितचेता जातः' इति ।
तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भि-
रभिनन्द्य 'चित्रमिदं महामुनेवृत्तम् । अत्रैव खलु फलितमति-
कष्टं तपः । तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशो: प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम्' इत्यभिधाय, पुनः 'अवतरतु भवान्' इति बहुश्रुते
विश्रुते विकचराजीवसदृशं चिक्षेप देवो राजवाहनः ।
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः ।
 
पदचन्द्रिका ।
 
शाखा । हर्षजलमानन्दाश्रु । वेक्लेद आर्दीभावः । जर्जरं विशीर्णम् । 'इन्द्रध्वजे विशीर्णे च जर्जरं परिचक्षते' इति शाश्वतः । निरञ्जनं कज्जलरहितम् । ईक्षणं नेत्रम् । स्नेहनिर्यन्त्रणं स्नेहबद्धम् । कार्त्स्ये-न कृत्स्नस्य भावस्तेन । समग्रेणेत्यर्थः । तदाननसंक्रान्तेन तन्मुखोद्गतेन । संदेशेन वाचिकेन । संजनय्योत्पाद्य । आन्ध्रश्चासौ कलिङ्गराजश्चेति तस्य राज्यं तच्छास्तीति शासी । यादृच्छिकं प्रसङ्गजातम् । आनन्दराशिः सुखसमूहः ॥
स्मितज्योत्स्ना हास्यदीप्तिः । दन्तच्छद ओष्ठः । सुहृद्भिः सखिभिः । नर्म परीहासः । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः । हर्षः संतोषः । प्रकर्ष आधिक्यम् । प्रज्ञा बुद्धिः । 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । सत्त्वं बलम् । बहुश्रुते बह्वनेकं श्रुतं शास्त्रादिश्रवणं यस्येति । विश्रुत एतन्नाम्नि । राजीवं कमलम् । सदृशं समानम् ॥
 
इति श्रीदशकुमारटीकायां पदचन्द्रिकाभिधायां सप्तम उच्छ्वासः ॥
 
भूषणा ।
 
विधेयस्य । 'वश्यः प्रणेयो निभृतविनीतप्रश्रिताः । समाः' इत्यमरः । नर्म परिहासः । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः ॥
 
इति श्रीदशकुमारटीकायां भूषणाभिधायां सप्तम उच्छ्वासः ॥
 
लघुदीपिका ।
 
'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥
इति सप्तम उच्वासः ॥
 
[^१]G. 'कलिङ्गराज्यं कलिङ्गनाथे न्यासम्'.