This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २५१
 
करशाखान्तरितद्न्तच्छदकिसलया
 
हर्षजलक्केदजर्जरनिरञ्जनेक्षणा
रचिताञ्जलिः 'नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं
किंचिदेतादृशम् । कथं चैतत् । कथय' इति स्नेहनियंत्रणं शनैरगा-
दीत् । अहं चास्यै कार्येनाख्याय, तदाननसंक्रान्तेन संदेशेन
संजनथ्य सहचर्या निरतिशयं हृदयाह्लादम् । ततश्चैतया दयितया
निरर्गलीकृतातिसत्कृतफलिङ्गनाथन्यायदत्तया संगत्यान्ध्रकैलिङ्गराज-
राज्यशासी तस्यास्यारिणा लिलङ्घयिषितस्याङ्गराजस्य साहाय्यकाया
लघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शना-
नन्दराशिलङ्गितचेता जातः' इति ।
 
तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भि-
रभिनन्द्य 'चित्रमिदं महामुनेवृत्तम् । अत्रैव खलु फलितमति-
कष्टं तपः । तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशो: प्रज्ञासत्त्वयोर्ट-
ष्टमिह स्वरूपम्' इत्यभिधाय, पुनः 'अवतरतु भवान्' इति बहुश्रुते
विश्रुते विकचराजीवसदृशं चिक्षेप देवो राजवाहनः ।
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्रासः ।
 
पदचन्द्रिका ।
 
शाखा । हर्षजलमानन्दाश्रु । वेद आदींभावः । जर्जरं विशीर्णम् । 'इन्द्रध्वजे'
विशीर्णे च जर्जरं परिचक्षते' इति शाश्वतः । निरञ्जनं कजलरहितम् । ईक्षणं
नेत्रम् । स्नेहनिर्यन्त्रणं स्नेहबद्धम् । कार्येन कृत्स्नस्य भावस्तेन । समग्रेणेत्यर्थः ।
तदाननसंक्रान्तेन तन्मुखोद्गतेन । संदेशेन वाचिकेन । संजनथ्योत्पाद्य । आन्ध्र-
चासौ कलिङ्गराजश्वेति तस्य राज्यं तच्छास्तीति शासी । यादृच्छिकं प्रसङ्गजा-
तम् । आनन्दराशिः सुखसमूहः ॥
 
स्मितज्योत्स्ना हास्यदीप्तिः । दन्तच्छद ओष्ठः । सुहृद्भिः सखिभिः । नर्म परी-
हासः । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः । हर्षः संतोषः ।
प्रकर्ष आधिक्यम् । प्रज्ञा बुद्धिः । 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः'
इत्यमरः । सत्त्वं बलम् । बहुश्रुते बहनेकं श्रुतं शास्त्रादिश्रवणं यस्येति । विश्रुत
एतन्नाम्नि । राजीवं कमलम् । सदृशं समानम् ॥ इति श्रीदशकुमारटी कार्या
पदचन्द्रिकाभिधायां सप्तम उच्छ्रासः ॥
 
भूषणा ।
 
विधेयस्य । 'वश्यः प्रणेयो निभृतविनीतप्रश्रिताः । समाः' इत्यमरः । नर्म
परिहासः । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः ॥
 
इति श्रीदशकुमारटीकायां भूषणाभिधायां सप्तम उच्छ्रासः ॥
लघुदीपिका ।
 
'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ इति सप्तम उच्वासः ॥
पाठा० -१ 'कलिङ्गराज्यं कलिङ्गनाथे न्यासम्'.