2023-08-31 03:42:17 by Lakshmainarayana achar

This page has been fully proofread twice.

दिग्धदिग्गजशिरःसदृक्षे शक्रदिगङ्गनारत्नादर्शेऽर्कचक्रे
कृतकरणीयःकिरणजालकरालरत्नराजिराजितराजार्हा-
सनाध्यासी यथासदृशाचारदर्शिनः शङ्कायन्त्रिताङ्गान्संनिधि- निषादिनः सहायानगादिषम् - 'दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसंनिकाशच्छायस्यधिकतरदर्शनीय- स्याकारान्तरस्य सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः । तदिदानीं चन्द्रशेखरनरकशासनसरसिजा- सनादीनां त्रिदशेशानां स्थानान्यत्यादररचितनृत्यगीताद्याराधनानि क्रियन्ताम् । ह्रियन्तां च गृहादितः क्लेशनिरसन- सहान्यर्थिसार्थैर्धनानि इति । आश्चर्यरसातिरेकहृष्टदृष्टयस्ते 'जय जगदीश, [^२]जयेन सातिशयं दश दिश: स्थगयन्निजेन यशसादिराजयशांसि' इत्यसकृदाशास्यारचयन्यथादिष्टाः
क्रियाः । स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां
कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षिषि – 'कच्चिदयं जनः
कदाचिदासीदृष्टः' इति । अथ सा हर्षकाष्ठां गतेन हृदयेनेष-
दालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चित-
 
पदचन्द्रिका ।
 
ग्राहकत्वम् । दिग्धं लिप्तम् । शक्रदिगङ्गना प्राची दिक् । राजार्हं राजयोग्यम् । संनिधौ निषीदन्ति ते संनिधिनिषादिनः । आर्षी ऋषेरियं तथा । यतेर्मुनेः । अजेयस्य जेतुमशक्यस्य । अद्येति । नास्तिकानां मिथ्येतिवादिनाम् । अर्थसार्थैर्याचकसमाजैः । क्लेशानां निरसनं दूरीकरणं तत्सहानि समर्थानि । आश्चर्यरसाति-
रेक आश्चर्यरसाधिक्यम् । त आदिष्टाः । जयेन सातिशयमतिशयेन सहवर्तमानं यथा तथा । आदिराजस्य मनोः यशांसि । असकृद्वारंवारम् । आशास्य प्रशस्य । आरचयन् । चकुरित्यर्थः । क्रियाः कार्याणि । हृदयस्थानीयां प्राणभूताम् । अथेति ।
हर्षकाष्ठां हर्षमर्यादाम् । ईषदल्पम् । दशनदीधितयो दन्तमयूखाः । कर एव
 
भूषणा ।
 
या लीला तया । न तु ह्रस्वप्रमाणस्य लीलया । तथा सति प्रतीकारसंभवापत्तेः । इन्द्रियाणामजेयस्य । जितेन्द्रियस्येत्यर्थः । स्थगयन् । नीरं जलम् । अजेयस्या-
 
लघुदीपिका ।
 
स्याविधेयस्य । 'वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः' । नर्म परिहासः ।
 
[^१]G. 'यत्नै: '.
[^२]G. 'स्वतेजसातिशय्य'.