This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ सप्तमः
कृतकरणीयः
यथासहशा-
दिग्धदिग्गजशिरःसदृक्षे शऋदिगङ्गनारत्नादर्शेऽर्कचक्रे
किरणजालकरालरत्नराजिराजित राजार्हासनाध्यासी
चारदर्शिनः शङ्कायत्रिताङ्गान्संनिधिनिषादिनः सहायानगादि-
षम् - 'दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयस्येन्द्रियाणां संस्का-
रेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसि-
जदलसंनिकाशच्छायस्याधिकतरदर्शनीय स्याकारान्तरस्य सिद्धिरा-
सीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः । तदिदानीं
चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशेशानां स्थानान्य-
त्यादररचितनृत्यगीताद्याराधनानि क्रियन्ताम् । ह्रियन्तां च गृहादितः
क्लेशनिरसनसहान्यर्थिसार्थैर्धनानि इति । आश्चर्यरसातिरेकहृष्ट-
दृष्टयस्ते 'जय जगदीश, जैयेन सातिशयं दश दिश: स्थगय-
निजेन यशसादिराजयशांसि' इत्यसकृदाशास्यार चयन्यथादिष्टाः
क्रियाः । स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां
कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षिषि – 'कञ्चिदयं जनः
कदाचिदासीदृष्टः' इति । अथ सा हर्षकाष्ठां गतेन हृदयेनेष-
दालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताश्चित-
२५०
 
पदचन्द्रिका ।
 
ग्राहकलम् । दिग्धं लिप्तम् । शक्रदिगङ्गना प्राची दिक् । राजाई राजयोग्यम् ।
संनिधौ निषीदन्ति ते संनिधिनिषादिनः । आर्षी ऋषेरियं तथा । यतेर्मुनेः । अजे-
यस्य जेतुमशक्यस्य । अद्येति । नास्तिकानां मिथ्येतिवादिनाम् । अर्थसार्थैर्या-
चकसमाजैः । क्लेशानां निरसनं दूरीकरणं तत्सहानि समर्थानि । आश्चर्यरसाति-
रेक आश्चर्यरसाधिक्यम् । त आदिष्टाः । जयेन सातिशयमतिशयेन सहवर्तमानं
यथा तथा । आदिरांजस्य मनोः यशांसि । असकृद्वारंवारम् । आशास्य प्रशस्य । आर-
चयन् । चकुरित्यर्थः । क्रियाः कार्याणि । हृदयस्थानीयां प्राणभूताम् । अथेति ।
हर्षकाष्ठां हर्षमर्यादाम् । ईषदल्पम् । दशनदीधितयो दन्तमयूखाः । कर एव
भूषणा ।
 
या लीला तया । न तु ह्रस्वप्रमाणस्य लीलया । तथा सति प्रतीकारसंभवापत्तेः ।
इन्द्रियाणामजेयस्य । जितेन्द्रियस्येत्यर्थः । स्थगयन् । नीरं जलम् । अजेयस्या-
लघुदीपिका ।
साविधेयस्य । 'वश्यः प्रणेयो निभृतविनीतप्रश्रिताः
 
समाः' । नर्म परिहासः ।
 
पाठा० - १ 'यतै: '. २ 'स्वतेजसातिशय्य'.