This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा-लघुदीपिकासहितम् ।
 
२४९
 
त्याजयति । न च निषेधनीया गरीयसां गिरः' इति स्नानाय
गृहानयासीत् । अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनि-
लीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः । स्थिते चार्धरात्रे कृतयथा-
दिष्टक्रिय: स्थानस्थानरचितरक्षः स राजा जालिकजनानानीय
निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत ।
गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नकलीलया
नीरातिनिलीनयायी तं तथाशयानं कंदेरायां कन्थया न्यग्रही-
षम् । खरतरकालदण्डघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्त-
निग्रहः क्षणेनैकेनाजहात्स चेष्टाम् । ततश्चाकृष्य तच्छरीरं छिद्रे
निधाय नीरान्निरयासिषम् ।
 
सद्यः संगतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणम् ।
गजस्कन्धगतः सितच्छन्नादिसकलराजचिह्नराजितश्चण्डतरदण्डि-
दण्डताडनत्रस्तजनदत्तान्तरालया राजवीभ्या यातस्तां निशां रसन-
यननिरस्तनिद्रारतिरनैषम् । नीते च जनाक्षिलक्ष्यतां लाक्षारस-
पदचन्द्रिका ।
 
कृतं दूरीकृतम् । सरः सलिलं सरोजलम् । अगाहृत । आलोडयामासेत्यर्थः । कीर्णकेशं
प्रसृतकेशम् । संहृतकर्णनासम् । कर्णौ च नासा च कर्णनासम् । प्राण्यङ्गलादेक
वद्भावः । पश्चात्संहतपदेन समासः । नासा नातिका । हास्तिनं हस्तित्रमाणम् ।
'पुरुषस्तिभ्यामण् च' (५॥२१३८ ) । अतिनिलीनतया यातीति निलीनयायी कन्थया
प्रावरणेन । 'कन्था प्रावरणान्तरे' इति विश्वः । खरतरस्तीक्ष्णः । कालदण्डो यम-
दण्डः । चण्डैः कठिनैः । निग्रहो निकारः । अजहात् तत्याजेत्यर्थः । 'ओहाक् त्यागे' ॥
 
सैनिकानां सेनाचराणाम् । आकारान्तरग्रहणमन्याकारप्राप्तिः । गजस्कन्धगतो
हस्तिमस्तकगतः । चण्डतरा अतिप्रचण्डाः । दण्डिनो दण्डधराः । अन्तरा-
लमभ्यन्तरम् । राजवीथ्या । राजमार्गेणेत्यर्थः । निशां रात्रिम् । रसः क्रीडारसः ।
निरस्ता व्यक्ता । निद्रारतिर्निद्रामुखम् । जनाक्षीणि लोकनेत्राणि तेषां लक्ष्यतां
भूषणा ।
 
1
 
'तैतिलौ देवकालिङ्गौ' । हास्तिनं हस्तिप्रमाणम् । पुरुषहस्तिभ्यामण् च (५।२।३८)
इति पक्षेऽणि 'संयोगादिश्च (६।४।१६६) इतीनोऽणि प्रकृतिभावः । हस्तिप्रमाणस्य
लघुदीपिका ।
 
'तैतिलौ देवकालिङ्गौ' । हास्तिनं हस्तिप्रमाणम् । 'पुरुषहस्तिभ्यामण् च' (५॥२॥३८ ) ।
नीरं जलम् । अत्यचित्रीयतातिचित्रमभवत् । निशान्तं निशाशेषम् । अजेय-
पाठा० - १ 'हस्तिनक'. २ 'कंधरायां न्यग्रहीषम्'. ३ 'निशान्तं निशा-
शेषम् .