2023-08-22 12:49:26 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
नाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत, रक्षा च
तीरात्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया । कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्ति' इति । तत्तस्य हृदयहारि
जातम् । तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहैरिच्छां च राज्ञः
कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न
निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यायत -
'राजन्, अत्र ते जनान्ते चिरं स्थितम्, न चैकत्र चिरस्थानं नः
शस्तम् । कृतकृत्यश्चेह न [^१]द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासा-
दितं तस्य ते किंचिदनाचर्य कार्य गतिरार्यग' इति । तत्रैत-
च्चिरस्थानस्य कारणम् । तच्चाद्य सिद्धम् । गच्छ गृहान् । यथा-
र्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेना [^२]राधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्र [^३]ग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिरागत्यार्थसि-द्धये यतेथाः' इति । स किल कृतज्ञतां दर्शयन्– 'असिद्धिरेषा सिद्धिः, यदसंनिधिरीहार्याणाम् । कष्टा चेयं निःसङ्गता या निरागसं दासजनं
पदचन्द्रिका ।
शब्दस्य षोडशहस्तप्रमाणमिति व्याख्यातं वृत्तिकृता । दृष्टान्तरालं ज्ञातमध्यम् । हृदयहारि चित्तहारि । तदासादनं तच्छब्देन सरस्तस्यासादनमधिष्ठापनम् । अतिशयेन दृढ आशयः यस्य । रागो रञ्जनं रागातिशयः । एकत्रैकस्मिन्स्थाने । शस्तं प्रशस्तम् ।
गृहान् । 'गृहाः पुंसि च भूम्न्येव' इत्यमरः । स्रङ्माला । अङ्गरागश्चर्चा । धरणितलं पृथ्वीतलं तत्र तैतिलगणः देवगणः । तिलस्नेहं तिलतैलम् । वर्तिका वस्त्रकृतनालिका । भाषया 'पलीता' इति ख्याता । तस्यामग्निशिखा अग्निज्वाला । ग्रस्तो गिलितः । नैशान्धकारराशी रात्रितिमिरसमूहः । अर्थसिद्धयेऽर्थप्राप्त्यर्थम् ।
यतेथाः । 'यती प्रयत्ने' अस्माल्लिङि मध्यमपुरुषैकवचनम् । असंनिधिरसंनिधानम् । आर्याणां श्रेष्ठानाम् । निरागसं निरपराधम् । गरीयसां गुरूणाम् । निरा-
भूषणा ।
इत्यमरः । रन्ध्रदर्शनासहैः । रन्ध्रदर्शननिपुणैरित्यर्थः । जनान्ते जनपदमध्ये । 'जनो जनपदे प्रोक्तः' इति हलायुधः । शस्तं प्रशस्तम् । धरणितलतैतिला भूदेवाः ।
लघुदीपिका ।
'जनो जनपदे प्रोक्तः' इति हलायुधः । शस्तं प्रशस्तम् । धरणितलतैतिला भूदेवाः ।
[^१]G. 'तिष्ठामि .
[^२]G. 'धरणितैतिल:'.
[^३]G. 'चेलाञ्चलखण्डकाग्निशिखासहस्त्रास्त',