2023-05-22 05:42:32 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१४
 
दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
"
 
'सखे, शरीरकार्श्यकारिणा' तपसालम् । वसुमतीगर्भस्थः सकल-

रिपुकुलमर्दनो राजनन्दनो नूनं संभविष्यति, कंचन कालं तूष्णी-

मास्स्व' इति । गगनचारिण्यापि वाण्या 'सत्यमेतत्' इति तदै[^१]वा-
वोचि । राजापि मुनिवाक्यमङ्गीकृत्यातिष्ठत् ।
 
H
 
34
 

 
ततः संपूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुत-

मसूत । ब्रह्मवर्चसेन तुलिंतवैवलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्मही -

पति: कुमारं सुकुमारं जातसंस्कारेण बालालंकारेण च विराजमानं

राजवाहननामानं व्यधत्त । तस्मिन्नेव काले सुमतिसुमन्त्रसुमित्रसु-

श्रुतानां मन्त्रिणां प्रमतिमित्रगुप्त मन्त्रगुप्तविश्रुताख्या मे[^२]महदभिख्याः
सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त । राजवाहनो मन्त्रि -
पुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत ।
 
3
 

 
अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कंचिन्न-

यनानन्दकरं सुकुमारं कुमारं राज्ञे समर्प्या[^३]वोचि – 'भूवल्लभ,

कुशसमिदानयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्प-

 
तेन । नियमवन्तं व्रतिनम् । त्रिकालज्ञो भूतभविष्यद्वर्तमानकालगतं जानातीति
तथा । सखे इति कोमलामन्त्रणम् । शरीरस्य देहस्य कार्श्य कृशस्य भावस्तत्करोतीति
तेन तपसालम् । तपो मानुतिष्ठेति भावः । नूनं निश्चितम् । तूष्णी जोषम् । आस्
स्व तिष्ठेत्यर्थः । गगनचारिण्याऽशरीरिण्या ।
 

 
तत इति । संपूर्णा गर्भदिवसा नव मासा नव दिवसाश्च यस्याः सा । सुमुहूर्त
उत्तममुहूर्ते काले । सकललक्षणैर्लक्षितं युक्तम् । ब्रह्मणो वर्चो ब्रह्मवर्चसम् । 'ब्रह्म-
हस्तियाभ्यां वर्चसः' (५॥४१७८ ) । इत्यच् । तुलितो वेधा ब्रह्मा येन तम् । 'स्रष्टा
प्रजापतिर्वेधा' इत्यमरः । पुरोधसमुपाध्यायम् । पुरस्कृत्याप्ग्रे कृत्वा । कृत्यं वेत्तीति

तथा । जातसंस्कारेण जननकालेऽनुष्ठितसंस्कारेण बालार्है- रलंकारैश्च । विराजमानं
विशेषेण शोभमानम् । व्यधत्त कृतवान् । सुमतीति मन्त्रिनामानि । प्रमतीति सुतना-
मानि । महत्यभिख्या शोभा येषां ते । 'महदभिख्या.' इति प्रयोगश्चिन्त्यः । नवः

प्रातिपदिक उद्यन्नुद्गच्छन् इन्दुश्चन्द्रः । 'उन्दी क्लेदने' इति धातुः । तस्य रुक्
कान्तिर्येषां ते । चिरायुषश्चिरंजीविनः ॥
 

 
अथेति । तापसेन मुनिना । रसेन रागेण । 'रसो गन्धरसे जले । शृङ्गारादौ
विषे वीर्ये तिकाक्तादौ द्रवरागयोः' इति मेदिनी । अवोचि । कर्मणि लुड्ङ् । कुशाश्च
समिधश्च तेषामानयनं तस्मै । नास्ति शरण्यं रक्षिता यस्याः सा । 'शरणं गृहर-
पाठा०-

 
[^
]G. 'अवाचि'.
[^
]G. 'महाभिख्या: '.
[^
]G. 'अवाचि',