This page has not been fully proofread.

१४
 
दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
"
 
'सखे, शरीरकार्यकारिणा' तपसालम् । वसुमतीगर्भस्थः सकल-
रिपुकुलमर्दनो राजनन्दनो नूनं संभविष्यति, कंचन कालं तूष्णी-
मास्स्व' इति । गगनचारिण्यापि वाण्या 'सत्यमेतत्' इति तदैवा-
वोचि । राजापि मुनिवाक्यमङ्गीकृत्यातिष्ठत् ।
 
H
 
34
 
ततः संपूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुत-
मसूत । ब्रह्मवर्चसेन तुलिंतवैवसं पुरोध पुरस्कृत्य कृत्यविन्मही -
पति: कुमारं सुकुमारं जातसंस्कारेण बालालंकारेण च विराजमानं
राजवाहननामानं व्यधत्त । तस्मिन्नेव काले सुमतिसुमत्रसुमित्रसु-
श्रुतानां मत्रिणां प्रमतिमित्रगुप्त मन्त्रगुप्तविश्रुताख्या मेहदभिख्याः
सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त । राजवाहनो मन्त्रि -
पुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत ।
 
3
 
अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कंचिन्न-
यनानन्दकरं सुकुमारं कुमारं राज्ञे समयवोचि – 'भूवल्लभ,
कुशसमिदानयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्प-
तेन । नियमवन्तं व्रतिनम् । त्रिकालज्ञो भूतभविष्यद्वर्तमानकालगतं जानातीति
तथा । सखे इति कोमलामन्त्रणम् । शरीरस्य देहस्य कार्य कृशस्य भावस्तत्करोतीति
तेन तपसालम् । तपो मानुतिष्ठेति भावः । नूनं निश्चितम् । तूष्णी जोषम् । आस्व
तिष्ठेत्यर्थः । गगनचारिण्याऽशरीरिण्या ।
 
तत इति । संपूर्णा गर्भदिवसा नव मासा नव दिवसाश्च यस्याः सा । सुमुहूर्त
उत्तममुहूर्ते काले । सकललक्षणैर्लक्षितं युक्तम् । ब्रह्मणो वर्चो ब्रह्मवर्चसम् । 'ब्रह्म-
हस्तिया वर्चसः' (५॥४१७८ ) । इत्यच् । तुलितो वेधा ब्रह्मा येन तम् । 'स्रष्टा
प्रजापतिर्वेधा' इत्यमरः । पुरोधसमुपाध्यायम् । पुरस्कृत्याप्रे कृत्वा । कृत्यं वेत्तीति
तथा । जातसंस्कारेण जननकालेऽनुष्ठितसंस्कारेण बालारलंकारैश्च । विराजमानं
विशेषेण शोभमानम् । व्यधत्त कृतवान् । सुमतीति मन्त्रिनामानि । प्रमतीति सुतना-
मानि । महत्यभिख्या शोभा येषां ते । 'महदभिख्या.' इति प्रयोगश्चिन्त्यः । नवः
प्रातिपदिक उद्यद्गच्छन् इन्दुश्चन्द्रः । 'उन्दी क्लेदने' इति धातुः । तस्य रुक्
कान्तिर्येषां ते । चिरायुषश्चिरंजीविनः ॥
 
अथेति । तापसेन मुनिना । रसेन रागेण । 'रसो गन्धरसे जले । शृङ्गारादौ
विषे वीर्ये तिकादौ द्रवरागयोः' इति मेदिनी । अवोचि । कर्मणि लुड् । कुशाश्च
समिधश्च तेषामानयनं तस्मै । नास्ति शरण्यं रक्षिता यस्याः सा । 'शरणं गृहर-
पाठा०-१ 'अवाचि'. २ 'महाभिख्या: '. ३ 'अवाचि',