2023-08-31 13:22:02 by Lakshmainarayana achar
This page has been fully proofread twice.
सिद्धिः स्यात् । तदेतस्यां निशि गलदर्धायां गाहनीयम् ।
गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य
यथाशक्ति शय्या कार्या । ततश्च तटस्खलितजलस्थगितजलज-
खण्डचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितसंदत्त-कर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जलसंघातस्य किंचिदारटितम् । शान्ते च तत्र सलिलरटिते क्लिन्नगात्र: किंचिदारक्तदृष्टिर्येनाकारेण निर्यास्यसि निचाय्य तं निखिलजननेत्रानन्दकारिणं न स यक्षः शक्ष्यत्यग्रतः स्थितये । स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् । अस्याश्च धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र संशयः । तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषिगणैराकलय्य जालिकशतं चा-
पदचन्द्रिका ।
दूषणम् । तत्सरः । गाहनीयमालोडनीयम् । संनिगृह्य । निग्रहं कृत्वेत्यर्थः । स्खलितं लग्नम् । स्थगितं मन्दीभूतम् । जलजखण्डं कमलसमूहः । दलितं धर्षितम् । जर्जरमतिश्लथम् । रसितं शब्दितम् । 'रस शब्दने' आरटितं पीडाशब्दितम् । क्लिन्नगात्र आर्द्रशरीरः । निचाय्य निश्चित्य । अग्रतः स्थितये । पुरो वर्ति-
तुमित्यर्थः । धिषणा बुद्धिः । 'बुद्धिर्मनीषा धिषणा' इत्यमरः । जालिका जालवर्तिनः । दण्डः प्रकाण्डः । 'दण्डोऽस्त्री लगुडे पुमान् । व्यूहभेदे प्रकाण्डे च' इति मेदिनी । षोडशहस्त इति यावत् । 'काण्डान्तात्क्षेत्रे' ( ४।१।२३ ) इति सूत्रे काण्ड-
भूषणा
कृतमिति यावत् । 'क्षतमन्तःकृतं च तत्' । निर्णिक्तं शोधितम् । 'निर्णिक्तं शोधितं मृष्टम्' इत्यमरः । हारयष्टिः प्रातस्तनप्रभारूपा । लास्यलीला नृत्यक्रिया । 'लीला विलासक्रिययोः' इत्यमरः । चर्चितं प्रलिप्तम् । 'चर्चा चार्चिक्यमालेपे' इति वैजयन्ती । तटस्खलितेति । तटात्स्खलिताः पतिताश्च ते जले स्थगिताः स्थिता ये जलजसमूहस्य चञ्चलदण्डस्तस्य कण्टकाग्राणि तैर्दलितो देहो येषां तेषां राजहंसानां त्रासजर्जरं त्रासेन कठोरं रसितं शब्दस्तत्र दत्तः कर्णो येन तस्य । क्षणेन सुखेन । नात्यादरेण विलासेनैवेत्यर्थः । धिषणा बुद्धिः । 'बुद्धिर्मनीषा घिषणा'
लघुदीपिका ।
चिदन्तके' इति वैजयन्ती । 'एकतः सर्वतो योगे शेषार्थे कर्म चेक्ष्यते' इति द्वितीया । 'निर्णिक्तं शोधितं मृष्टम् । लास्यलीला नृत्यक्रीडा । 'लीला विलासक्रिययोः' । चर्चितं प्रलिप्तम् । 'चर्चा चार्चिक्यमालेपे इति वैजयन्ती । रसितं शब्दः । 'रस शब्दने' । 'बुद्धिर्मनीषा धिषणा' । जनान्ते जनपदमध्ये ।