This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा-लघुदीपिकासहितम् । २४७
सिद्धिः स्यात् । तदेतस्यां निशि गलदर्धायां गाहनीयम् ।
गाहनानन्तरं च सलिलतले सततगतीनन्तः संचारिणः संनिगृह्य
यथाशक्ति शय्या कार्या । ततश्च तटस्खलितजलस्थगितजलज-
खण्डचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितसंदत्त-
कर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जलसंघातस्य किंचिदारटि-
तम् । शान्ते च तत्र सलिलरटिते किन्नगात्र: किंचिदारक्तदृष्टि-
र्येनाकारेण निर्यास्यसि निचाय्य तं निखिलजननेत्रानन्दका-
रिणं न स यक्षः शक्ष्यत्यग्रतः स्थितये । स्थिरतरनिहित स्नेहशू-

ङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं
स्यात् । अस्याश्च धराङ्गनाया नात्यातनिराकृतारिचक्रं चक्रं कर-
तलगतं चिन्तनीयं न तत्र संशयः । तच्चेदिच्छस्यनेकशास्त्रज्ञान-
धीरधिषणैरधिकृतैरितरैश्च हितैषिगणैराकलय्य जालिकशतं चा-
पदचन्द्रिका ।
 
दूषणम् । तत्सरः । गाहनीयमा लोडनीयम् । संनिगृह्य । निग्रहं कृत्वेत्यर्थः । स्ख-
लितं लग्नम् । स्थगितं मन्दीभूतम् । जलजखण्डं कमलसमूहः । दलितं धर्षि-
तम् । जर्जरमतिश्लथम् । रसितं शब्दितम् । 'रस शब्दने' आरटितं पीडाश-
व्दितम् । क्लिन्नगात्र आईशरीरः । निचाय्य निश्चित्य । अग्रतः स्थितये । पुरो वर्ति-
तुमित्यर्थः । धिषणा बुद्धिः । 'बुद्धिर्मनीषा धिषणा' इत्यमरः । जालिका जालवर्तिनः ।

दण्डः प्रकाण्डः । 'दण्डोऽस्त्री लगुडे पुमान् । व्यूहमेदे प्रकाण्डे च' इति मेदिनी ।
षोडशहस्त इति यावत् । 'काण्डातात्क्षेत्रे' ( ४।१।२३ ) इति सूत्रे काण्ड-
भूषणा ।
 
-
 
कृतमिति यावत् । 'क्षतमन्तःकृतं च तत्' । निर्णिकं शोधितम् । 'निर्णितं
शोधितं मृष्टम्' इत्यमरः । हारयष्टिः प्रातस्तनप्रभारूपा । लास्यलीला नृत्यक्रिया ।
'लीला विलासक्रिययोः' इत्यमरः । चर्चितं प्रलिप्तम् । 'चर्चा चार्चिक्यमालेपे'
इति वैजयन्ती । तटस्खलितेति । तटात्स्खलिताः पतिताश्च ते जले स्थगिताः
स्थिता ये जलजसमूहस्य चञ्चलदण्डस्तस्य कण्टकाआाणि तैर्दलितो देहो येषां तेषां
राजहंसानां त्रासजर्जर त्रासेन कठोरं रसितं शब्दस्तत्र दत्तः कर्णो येन तस्य ।
क्षणेन सुखेन । नात्यादरेण विलासेनैवेत्यर्थः । धिषणा बुद्धिः । 'बुद्धिर्मनीषा घिषणा'
लघुदीपिका ।
 
चिदन्तके' इति वैजयन्ती । 'एकतः सर्वतो योगे शेषार्थे कर्म चेक्ष्यते' इति
द्वितीया । 'निर्णितं शोधितं भृष्टम् । लास्यलीला नृत्यक्रीडा । 'लीला विलास-
किययोः' । चर्चितं प्रलिप्तम् । 'चर्चा चार्चिक्यमालेपे इति वैजयन्ती ।
रसितं शब्दः । 'रस शब्दने' । 'बुद्धिर्मनीषा धिषणा' । जनान्ते जनपदमध्ये ।