2023-08-22 08:15:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

स्नाननिर्णितगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रप्रथितरत्नम्, क्षणदान्ध-
कारगन्धहस्तिदारणैककेसरिणम्,कनकशैलशृङ्गरङ्गलास्यलीलातटम्,गगनसागरघनतरङ्गराजिलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्ग- रागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् ।
याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारणच्छायतेजसि, अचलराजकन्यकाकदर्थनयान्तरिक्षाख्येन शंकरशरीरेण
संसृष्टाया: संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये
दिनाधिनाथे, जनाधिनाथः स आगत्य जनस्यास्य धरणिन्यस्त-
चरणनखकिरणच्छादित किरीट : कृताञ्जलिरतिष्ठत् । आदिष्टश्च-
'दिष्ट्या दृष्टेष्टसिद्धिः । इह जगति हि न निरीहं देहिनं श्रियः
संश्रयन्ते । श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि । यतस्ते साधीयसा सच्चरितेनानाकलितकलङ्केनार्चितेनात्यादर-
निचितेनाकृष्टचेतसा जनेनानेन सर इदं तथा संस्कृतम्, यथेह तेऽद्य
 
पदचन्द्रिका ।
 
शोधितं मृष्टम्' इत्यमरः । संतानं विस्तारः । क्षणदा रात्रिः । गन्धहस्त्युन्मत्तद्विपः । दारणं विदारकम् । कनकशैलः सुवर्णाचलः । शृङ्गं शिखरम् । लास्यलीला विलासक्रियाः । गगनसागरो गगनसमुद्रः । घना एव तरङ्गाः । राजिः परम्परा । लङ्घन-मतिक्रम्य गमनम् । सहस्त्राक्ष इन्द्रस्तद्दिगङ्गना । प्राचीत्यर्थः । रागायितं रागवदाचरितम् । रक्तनीरजं रक्तोत्पलम् । निजनिकेतनं स्वगृहम् । न्यशिश्रियमाश्रितवान् ।
'अस्तगिरिशिखरगैरिकतटसाधारणच्छायतेजसि' इत्यग्रिम 'दिनाधिनाथे' इति पदस्य विशेषणम् । अचलराजकन्यका पार्वती । कदर्थनया कुत्सितप्रार्थनया । अन्तरिक्षाख्येन । अष्टमूर्तिमध्य आकाशाभिधेयेनेत्यर्थः । संसृष्टाया मिलितायाः ।
संध्यैवाङ्गना । चर्चितः प्रलिप्तः । 'चर्चा चर्चिक्यमालेपे' इति वैजयन्ती । दिष्ट्या अदृष्टेन । इष्टसिद्धिर्दृष्टेत्यन्वयः । निरीहं निर्गतेहा स्पृहा यस्येति तम् । निःस्पृहमित्यर्थः । सस्पृहमेव श्रिय आश्रयन्त इति भावः । श्रेयांसि सुकृतानि । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । अनलसानामुद्योगिनाम् ।
साधीयसा [ अतिशयेन ] साध्विति साधीयस्तेन । अनाकलितं दूरीकृतम् । कलङ्को
 
भूषणा ।
 
करप्रभायाः स्वल्पत्वं कथितम् । जलतललीनेनान्तःप्रविष्टेनैव गम्यं कृच्छ्रमज्ञेयमन्तरालमवकाशो यस्य तथा सरस्तटं तदेकत एकत्र कृतम् । तत्तटे गुप्तं स्थानं जले
 
लघुदीपिका ।
 
ग्रस्तं प्सातमन्त:कृतं च तत् । सरस्तटमेकृतः सरस्तटस्यान्तिके । 'एकतः क्व