This page has not been fully proofread.

[ सप्तमः
 
क्षणदान्ध-
कनकशैलशृङ्ग रङ्गलास्यलीला-
तटम्, गगनसागरघनतरङ्गराजिलङ्घनैकनक्रम्, कार्याकार्यसाक्षि-
णम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्,
रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् ।
 
दशकुमारचरितम् ।
 
स्नाननिर्णितगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रप्रथितरत्नम्,
कारगन्धहस्तिदारणैककेसरिणम्,
 
२४६
 
याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारणच्छाय-
तेजसि, अचलराजकन्यका कदर्थनयान्तरिक्षाख्येन शंकरशरीरेण
संसृष्टाया: संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्त नकलशदर्शनीये
दिनाधिनाथे, जनाधिनाथः स आगत्य जनस्यास्य धरणिन्यस्त-
चरणनखकिरणच्छादित किरीट : कृताञ्जलिरतिष्ठत् । आदिष्टश्च
'दिष्ट्या दृष्टेष्टसिद्धिः । इह जगति हि न निरीहं देहिनं श्रियः
संश्रयन्ते । श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्या-
नि । यतस्ते साधीयसा सञ्चरितेनाना कलितकलङ्केनार्चितैनात्यादर-
निचितेनाकृष्टचेतसा जनेनानेन सर इदं तथा संस्कृतम्, यथेह तेऽद्य
पढ़चन्द्रिका ।
 
शोधितं मृष्टम्' इत्यमरः । संतानं विस्तारः । क्षणदा रात्रिः । गन्धहस्त्युन्मत्तद्विपः ।
दारणं विदारकम् । कनकशैलः सुवर्णाचलः । शृङ्गं शिखरम् । लास्यलीला विलास-
क्रियाः । गगनसागरो गगनसमुद्रः । घना एव तरङ्गाः । राजिः परम्परा । लङ्घन-
मतिक्रम्य गमनम् । सहस्त्राक्ष इन्द्रस्तद्दिगङ्गना । प्राचीत्यर्थः । रागायितं रागवदा-
चरितम् । रक्तनीरजं रक्तोत्पलम् । निजनिकेतनं स्वगृहम् । न्यशिश्रियमाश्रितवान् ।
 
'अस्तगिरिशिखरगैरिकतटसाधारणच्छायतेजसि' इत्यग्रिम दिनाधिनाथे इति
पदस्य विशेषणम् । अचलराजकन्यका पार्वती । कदर्थनया कुत्सितप्रार्थनया ।
अन्तरिक्षाख्येन । अष्टमूर्तिमध्य आकाशाभिधेयेनेत्यर्थः । संसृष्टाया मिलितायाः ।
संध्यैवाङ्गना । चर्चितः प्रलिप्तः । 'चर्चा चर्चिक्यमालेपे' इति वैजयन्ती ।
दिध्या अदृष्टेन । इष्टसिद्धिर्दृष्टेत्यन्वयः । निरीहं निर्गतेहा स्पृहा यस्येति तम् ।
निःस्पृहमित्यर्थः । सस्पृहमेव श्रिय आश्रयन्त इति भावः । श्रेयांसि सुकृता-
नि । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । अनलसानामुयोगिनाम् ।
साधीयसा [ अतिशयेन ] साध्विति साधीयस्तेन । अनाकलितं दूरीकृतम् । कलङ्को
 

 
भूषणा ।
 
करप्रभायाः स्वल्पत्वं कथितम् । जलतललीनेनान्तः प्रविष्टेनैव गम्यं कृच्छ्रमज्ञेयम-
न्तरालमवकाशो यस्य तथा सरस्तटं तदेकत एकत्र कृतम् । तत्तटे गुप्तं स्थानं जले
 
लघुदीपिका ।
 
। सरस्तटमेकृतः सरस्तटस्यान्तिके । 'एकतः क
 
अस्तं प्सातमन्तःकृतं च तत्'