2023-08-22 07:56:42 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
णातिगरीयसार्चयन्नर्थैश्च शिष्यान्संगृह्णन्नधिगतक्षणः कदाचित्का-
ङ्क्षितार्थसाधनाय शनैरयाचिष्ट । ध्यानधीरः स्थानदर्शितज्ञान-
संनिधिश्चैनं निरीक्ष्य निचाय्याकथयम् – 'तात, स्थान एष हि
यत्नः । तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेरधिगतिः
क्षीरसागररशनालंकृताया गङ्गादिनदीसहस्रहारयष्टिराजिताया धराङ्गनाया एवासादनाय साधनम् । न च स यक्षस्तदधिष्ठायी केनचिनरेन्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते । तदत्र सह्यतां त्रीण्यहानि, यैरहं यतिष्येऽर्थस्यास्य साधनाय' इति । तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि निद्रानिगडितनिखिल- जनदृशि निर्गत्य जल[^१]तलनिलीनगाहनीयं नीरन्ध्रंकृच्छ्राच्छिद्री- [^२]कृतान्तरालं तदेकतः सरस्तटं तीर्थसंनिकृष्टं केनचित्खनन- साधनेनाकार्षम्। घनशिलेष्टिकाच्छन्नच्छिद्राननं तत्सरस्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादि-
पदचन्द्रिका ।
जयसिंहः । अहरहः प्रतिदिनम् । क्षण उत्सवः । निचाय्य । दृष्ट्वेत्यर्थः । अधिगतः प्राप्तः । रशना मेखला । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना स्त्रियाम्' इत्यमरः । नीरजं कमलं तद्वद्दर्शनं नेत्रम् । 'दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति मेदिनी । निर्निशाकरार्चिषि निर्गतं निशाकरस्य चन्द्रस्यार्चिस्तेजो यस्यामिति
निशीत्यस्य विशेषणम् । नीरन्ध्रान्धकारो गाढान्धकारः ।निगीर्णदशदिशि । 'निगीर्णं खादितं ग्रस्तं क्षतमन्तःकृतं च तत्' इति कोशः । निगडितं बद्धम् । सरस्तटमेकतः सरस्तटस्यान्तिके । 'एकतः क्वचिदन्तिके' इति वैजयन्ती' । 'एकतः सर्वतो
योगे शेषार्थे कर्म वेष्यते' इति द्वितीया । घना निबिडाः । शिलाः पाषाणाः । इष्टिकाच्छन्नमाच्छादितम् । दिनादिः प्रातःकालः । निर्णिक्तं शोधितम् । 'निर्णिक्तं
भूषणा ।
वदन्ति षट् ॥" इति । धनदाज्ञाकरो यक्षः । अधिगतः प्राप्तः क्षणमेकान्तकालो येन । स्थाने योग्ये काले दर्शितो ज्ञानस्य तदधिष्ठितपिशाचादिज्ञानस्य संनिधिः सांनिध्यं
येन सः । निचाय्य दृष्ट्वा । निगीर्णदशदिशि । 'निगीर्णं खादितं ग्रस्तम्' । निशाः
लघुदीपिका ।
षट् ॥ धनदाज्ञाकरो यक्षः । निचाय्य दृष्ट्वा । निगीर्णदशदिशि । 'निगीर्णं खादितं
[^१]G. 'तल्लीन'.
[^२]G. 'कृतान्तरम्'.