This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका भूषणा-लघुदीपिकासहितम् । २४५
णातिगरीयसार्चयन्नर्थैश्च शिष्यान्संगृह्णन्नधिगतक्षणः कदाचित्का-
तार्थसाधनाय शनैरयाचिष्ट । ध्यानधीरः स्थानदर्शितज्ञान-
संनिधिश्चैनं निरीक्ष्य निचाय्याकथयम् – 'तात, स्थान एष हि
यत्नः । तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेरधिगतिः
क्षीरसागररशनालंकृताया गङ्गादिनदी सहस्रहारयष्टिराजिताया धरा-
ङ्गनाया एवासादनाय साधनम् । न च स यक्षस्तद्धिष्ठायी केनचि-
नरेन्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते । तदन
सह्यतां त्रीण्यहानि, यैरहं यतिष्येऽर्थस्यास्य साधनाय' इति । तथादिष्टे
च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि नीरन्ध्रान्ध-
कारकणनिकर
निगीर्णदशदिशि निद्रानिगडितनिखिलजनदृशि निर्गत्य
जलतैलनिलीनगाहनीयं नीरन्धं कृच्छ्राच्छिद्रीकृतान्तरालं तदेकतः
सरस्तटं तीर्थसंनिकृष्टं केनचित्खननसाधनेनाकार्षम्। घनशिलेष्टिका-
च्छन्नच्छिद्राननं तत्सरस्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादि-
पदचन्द्रिका ।
 
जयसिंहः । अहरहः प्रतिदिनम् । क्षण उत्सवः । निचाय्य । दृष्टेत्यर्थः । अधिगतः
प्राप्तः । रशना मेखला । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना स्त्रियाम्' इत्यमरः ।
नीरजं कमलं तद्वद्दर्शनं नेत्रम् । 'दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति
मेदिनी । निर्निशाकरार्चिषि निर्गतं निशाकरस्य चन्द्रस्यार्चिस्तेजो यस्यामिति
निशीत्यस्य विशेषणम् । नीरधान्धकारो गाढान्धकारः । निगीर्णदशदिशि । 'निगीर्ण
खादितं ग्रस्तं क्षतमन्तःकृतं च तत्' इति कोशः । निगडितं बद्धम् । सरस्खटमे-
कतः सरस्तटस्यान्तिके । 'एकतः क्वचिदन्तिके' इति वैजयन्ती' । 'एकतः सर्वतो
योगे शेषार्थे कर्म वेष्यते' इति द्वितीया । घना निबिडाः । शिलाः पाषाणाः ।
इष्टिकाच्छन्नमाच्छादितम् । दिनादिः प्रातःकालः । निर्णितं शोधितम् । 'निर्णिकं
भूषणा ।
 
वदन्ति षट् ॥" इति । धनदाज्ञाकरो यक्षः । अधिगतः प्राप्तः क्षणमेकान्तकालो येन ।
स्थाने योग्ये काले दर्शितो ज्ञानस्य तदधिष्ठितपिशाचादिज्ञानस्य संनिधिः सांनिध्यं
येन सः । निचाय्य दृष्ट्वा । निगीर्णदशदिशि । 'निगीर्ण खादितं प्रस्तम्' । निशाः
लघुदीपिका ।
 
षट् ॥ धनदाज्ञाकरो यक्षः । निचाय्य दृष्टा । निगीर्णदशदिशि । 'निगीर्ण खादितं
 
पाठा० -१ 'तल्लीन'. २ 'कृतान्तरम्'.