2023-08-22 07:24:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

ल्कशकलशारस्य सारसश्रेणिशेखरस्य सरसस्तीरकानने कृतनिकेतन: स्थितः । शिष्यजनकथितचित्रचेष्टाकृष्ट- सकल[^१]नागरजनाभिसंधानदक्षः सन्दिशिदिशीत्यकीर्त्ये जनेन
– 'य एष जरदरण्यस्थलीसरस्तीरे स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि च छन्दांसि रसनाग्रे संनिहितानि। अन्यानि च शास्त्राणि येन यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति । असत्येन नास्यास्यं संसृज्यते । सशरीश्चैष दयाराशिः । [^२]एतत्संग्रहेणाद्य चिरं चरितार्था दीक्षा । तच्चरणरजःकणैः कैश्चन शिरसि कीर्णैरनेकस्यानेक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः । तदङ्घ्रिक्षालनसलिलसेकैर्निष्कलङ्क-
शिरसां नश्यन्ति क्षणेनैकेनाखिल [^३]नरेन्द्रयन्त्रा- लङ्घिनश्चण्डताराग्रहाः । न तस्य शक्यं शक्तेरियत्ताज्ञानम् । न चास्याहंकारकणिका' इति । सा चेयं कथानेकजनास्यसंचारिणी तस्य कनकलेखाधिष्ठान- धनदाज्ञाकरनिराक्रियासक्तचेतसः क्षत्रियस्याकर्षणायाशकत् । स चाहरहरागत्यादरे-
 
पदचन्द्रिका ।
 
संहतिर्वृन्दम्' इत्यमरः । किंजल्कः केसरः । शारं चित्रम् । कृतनिकेतनः कृतगृहः। अभिसंधानं प्रतारणम् । दिशिदिशि प्रतिदिशम् । अकीर्त्ये ख्यापित इत्यर्थः । जरदरण्यं जीर्णारण्यम् । षडङ्गानि शिक्षादीनि । छन्दांसि वेदाः । रसनाग्रं जिह्वाग्रम् ।
आस्यं मुखम् । सशरीरः शरीरवान् । दयाराशिः कृपासमुद्रः । संग्रहेण स्वीकारेण । आतङ्को भयम् । चिकित्सकैर्मन्त्रवादिभिः । अखिलनरेन्द्रा मन्त्रवादिनः । यन्त्राणि मन्त्रविन्यासरेखाक्रमः । 'यत्न' इति वा पाठः । इयत्ता परिमाणम् । अहंकारकणिका अहंकारलेशः । सा चेति । सा च कथा । तस्य । जयसिंहस्येत्यर्थः ।
धनदः कुबेरस्तस्याज्ञाकरो यक्षः । निराक्रिया दूरीकरणम् । स चेति । स
 
भूषणा ।
 
इत्यर्थः । आयस्यति यतते । 'यसु प्रयत्ने' । अतिसंहितान्वञ्चितान् । शकलशारस्य शकले चित्रवर्णस्येति । अकीर्त्ये । इति वक्ष्यमाणप्रकारेण । स्थण्डिलशायी । 'स्थण्डिलाच्छयितरि व्रते (४।२।१५) इति णिनिः । सरहस्यानि सोपनिषत्कानि । सषडङ्गानि
'निरुक्तं ज्योतिषं कल्पसूत्रं व्याकरणं तथा । छन्दोविचितिशिक्षे च वेदाङ्गानि
 
लघुदीपिका ।
 
तुः । अतिसंहितांश्चिन्तितान् । सरहस्यानि सोपनिषत्कानि । सषडङ्गानि । 'निरुक्तं ज्योतिषं कल्पसूत्रं व्याकरणं तथा । छन्दोविचितिशिक्षे च वेदाङ्गानि वदन्ति
 
[^१]G. 'अतिसंधान'.
[^२]G.'एतत्सकाशादर्थग्रहेणाद्य'.
[^३]G. 'नरेन्द्रयत्नलङ्घिन:'.