2023-08-22 07:21:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२४४
 
दशकुमारचरितम् ।
 
[सप्तमः
 
ल्कशकलशारस्य सारसश्रेणिशेखरस्य सरसस्तीरकानने कृतनिकेतनः
न: स्थितः । शिष्यजनकथितचित्रचेष्टाकृष्ट- सकल[^१]नागरजनाभिसंधानदक्षः
सन्दिशिदिशीत्यकीर्लेत्ये जनेन

– 'य एष जरदरण्यस्थलीसरस्तीरे
स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि
च छन्दांसि रसनाग्रे संनिहितानि । अन्यानि च शास्त्राणि येन
यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति । अस-
ले
त्येन नास्यास्यं संसृज्यते । सशरीरवैश्चैष दयाराशिः । [^२]एतत्संग्र-
हेणाद्य चिरं चरितार्था दीक्षा । तच्चरणरजःकणैः कैश्चन शिरसि
कीर्णैरनेकस्यानेक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः । तद्-
शि
दङ्घ्रिक्षालनसलिलसेकैर्निष्कलङ्क
-
शिरसां नश्यन्ति क्षणेनैकेनाखिल [^३]नरेन्द्रयन्त्रा-
नैरेन्द्रयत्रा
लङ्घिनश्चण्डताराग्रहाः । न तस्य शक्यं शक्तेरियत्ता-
ज्ञानम् । न चास्याहंकारकणिका' इति । सा चेयं कथानेक-
जनास्यसंचारिणी तस्य कनकलेखाधिष्ठान- धनदाज्ञाकरनिराक्रिया-
सक्तचेतसः क्षत्रियस्याकर्षणायाशकत् । स चाहरहरागत्यादरे-

 
पदचन्द्रिका ।
 

 
संहतिर्वृन्दम्' इत्यमरः । किंजल्कः केसरः । शारं चित्रम् । कृतनिकेतनः कृतगृहः
अभिसंधानं प्रतारणम् । दिशिदिशि प्रतिदिशम् । अकीर्त्यैये ख्यापित इत्यर्थः । जर-
दरण्यं जीर्णारण्यम् । षडङ्गानि शिक्षादीनि । छन्दांसि वेदाः । रसनामंग्रं जिह्वाग्रम् ।

आस्यं मुखम् । सशरीरः शरीरवान् । दयाराशिः कृपासमुद्रः । संग्रहेण स्वीका-
रेण । आतङ्को भयम् । चिकित्सकैर्मन्त्रवादिभिः । अखिलनरेन्द्रा मन्त्रवादिनः ।
यन्त्राणि मन्त्रविन्यासरेखाक्रमः । 'यत्न' इति वा पाठः । इयत्ता परिमाणम् ।
अहंकारकणिका अहंकारलेशः । सा चेति । सा च कथा । तस्य । जयसिंहस्येत्यर्थः ।

धनदः कुबेरस्तस्याज्ञाकरो यक्षः । निराक्रिया दूरीकरणम् । स चेति । स

 
भूषणा ।
 

 
इत्यर्थः । आयस्यति यतते । 'यसु प्रयत्ने' । अतिसंहितान्वञ्चितान् । शकलशारस्य शकले
चित्रवर्णस्येति । अकीर्लेत्ये । इति वक्ष्यमाणप्रकारेण । स्थण्डिलशायी । 'स्थण्डिला-

च्छयितरि व्रते (४१५) इति णिनिः । सरहस्यानि सोपनिषत्का नि । सषडङ्गानि

'निरुक्तं ज्योतिषं कल्पसूत्रं व्याकरणं तथा । छन्दोविचितिशिक्षे च वेदाङ्गानि

 
लघुदीपिका ।
 

 
तुः । अतिसंहितांश्चिन्तितान् । सरहस्यानि सोपनिषत्कानि । सषडङ्गानि । 'निरुक्तं
ज्योतिषं कल्पसूत्रं व्याकरणं तथा । छन्दोविचितिशिक्षे च वेदाङ्गानि वदन्ति
 
पाठा० -

 
[^
]G. 'अतिसंधान'.
[^
]G.'एतत्सकाशादुर्थग्रहेणाद्य'.
[^
]G. 'नरेन्द्रयत्न -
डिङ्घिन:'.