This page has not been fully proofread.

२४४
 
दशकुमारचरितम् ।
 
[सप्तमः
 
लकशकलशारस्य सारसश्रेणिशेखरस्य सरसस्तीरकानने कृतनिकेतनः
स्थितः । शिष्यजनकथितचित्रचेष्टाकृष्टसकलनागरजनाभिसंधानदक्षः
सन्दिशिदिशीत्यकीर्ले जनेन
– 'य एष जरदरण्यस्थलीसरस्तीरे
स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि
च छन्दांसि रसनाग्रे संनिहितानि । अन्यानि च शास्त्राणि येन
यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति । अस-
लेन नास्यास्यं संसृज्यते । सशरीरवैष दयाराशिः । ऎतत्संग्र-
हेणाद्य चिरं चरितार्था दीक्षा । तच्चरणरजःकणैः कैश्चन शिरसि
कीर्णैरनेकस्यानेक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः । तद्-
शिक्षालनसलिलसेकैर्निष्कलङ्क
शिरसां नश्यन्ति क्षणेनैकेनाखिल-
नैरेन्द्रयत्रालङ्घिनश्चण्डताराग्रहाः । न तस्य शक्यं शक्तेरियत्ता-
ज्ञानम् । न चास्याहंकारकणिका' इति । सा चेयं कथानेक-
जनास्यसंचारिणी तस्य कनकलेखाधिष्ठानधनदाज्ञाकरनिराक्रिया-
सक्तचेतसः क्षत्रियस्याकर्षणायाशकत् । स चाहरहरागत्यादरे-
पदचन्द्रिका ।
 
संहतिर्वृन्दम्' इत्यमरः । किंजल्कः केसरः । शारं चित्रम् । कृतनिकेतनः कृतगृहः
अभिसंधानं प्रतारणम् । दिशिदिशि प्रतिदिशम् । अकीर्त्यै ख्यापित इत्यर्थः । जर-
दरण्यं जीर्णारण्यम् । षडङ्गानि शिक्षादीनि । छन्दांसि वेदाः । रसनामं जिह्वाग्रम् ।
आस्यं मुखम् । सशरीरः शरीरवान् । दयाराशिः कृपासमुद्रः । संग्रहेण स्वीका-
रेण । आतङ्को भयम् । चिकित्सकैर्मन्त्रवादिभिः । अखिलनरेन्द्रा मन्त्रवादिनः ।
यन्त्राणि मन्त्रविन्यासरेखाक्रमः । 'यत्न' इति वा पाठः । इयत्ता परिमाणम् ।
अहंकारकणिका अहंकारलेशः । सा चेति । सा च कथा । तस्य । जयसिंहस्येत्यर्थः ।
धनदः कुबेरस्तस्याज्ञाकरो यक्षः । निराक्रिया दूरीकरणम् । स चेति । स
भूषणा ।
 
इत्यर्थः । आयस्यति यतते । 'यसु प्रयत्ने' । अतिसंहितान्वञ्चितान् । शकलशारस्य शकले
चित्रवर्णस्येति । अकीर्ले । इति वक्ष्यमाणप्रकारेण । स्थण्डिलशायी । 'स्थण्डिला-

च्छयितरि व्रते (४॥२॥१५) इति णिनिः । सरहस्यानि सोपनिषत्का नि । सषडङ्गानि
'निरुक्तं ज्योतिषं कल्पसूत्रं व्याकरणं तथा । छन्दोविचितिशिक्षे च वेदाङ्गानि
लघुदीपिका ।
 
तुः । अतिसंहितांश्चिन्तितान् । सरहस्यानि सोपनिषत्कानि । सषडङ्गानि । 'निरुक्तं
ज्योतिषं कल्पसूत्रं व्याकरणं तथा । छन्दोविचितिशिक्षे च वेदाङ्गानि वदन्ति
 
पाठा० - १ 'अतिसंधान'. २ 'एतत्सकाशादुर्थग्रहेणाद्य'. ३ 'नरेन्द्रयत्न -
लडिन:'.