2023-08-18 17:25:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

हृतसहकार [^१]चञ्चरीककलिके,कालाण्डजकण्ठरागरक्तरक्ता- धरारतिरणाग्रसंनाहशालिनि,शालीनकन्यकान्तःकरणसंक्रान्तरागलङ्घितलज्जे,दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालता [^२]नृत्यलीले काले, कलिङ्गराजः सहाङ्गनाजनेन सह च तनयया सकलेन च नगरजनेन दश त्रीणि च दिनानि दिनकरकिरणजालालङ्घनीये, रणदुलिसङ्घलङ्घितनतलतामकिस- लयालीढसैकततटे, तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीडारसजातासक्तिरासीत् । अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहेलानिरर्गलानङ्गसंघर्षहर्षि-तश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्रे आन्ध्रनाथेन जयसिंहेन सलिलतरणसाधनानीतेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः । सा चानीयत त्रासतरलाक्षी दयिता नः सह सखीजनेन कनकलेखा । तदाहं दाहेनानङ्गदहनजनितेनान्त-
 
पदचन्द्रिका ।
 
चञ्चरीका भ्रमराः । कलिकाः कोरकाः । कालाण्डज: कोकिलः । 'वनप्रियः परभृतः पिकः कालाण्डजः स्मृतः' इति वैजयन्ती । रक्तरक्ताधराः स्निग्धाः स्त्रियः । शालीनमधृष्टम् । 'शालीनकौपीने अधृष्टाकार्ययोः' (५।२।२० ) इति निपातः । दर्दुरं ग्रामजालम् । 'दर्दुरा चण्डिकायां च ग्रामजाले तु दर्दुरम्' इति विश्वः । अथवा
दर्दुरवद्वाद्यभाण्डवद्यद्गिरितटम् । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' इति मेदिनी । अलङ्घनीये दुर्लङ्घ्ये ।अनिलो वायुः । रणन्तः शब्दं कुर्वन्तः । अलयो भ्रमराः । लताग्रकिसलयानि वल्लयप्रपल्लवानि । सैकतं सिकतामयम् । रणन्तो येऽलिसङ्घा भ्रमरसमूहास्तैलघिता अत एव नता या लतास्तासामग्रकिसलयैः आलीढं स्पृष्टं यत्र । सागरतीरकानने समुद्रतटवने । अथेति । शृङ्गारहेला क्रियानादरः । निरर्गलोऽप्रतिहतः । अनङ्गो मदनः । तत्र रन्ध्रे तत्रावकाशे । आन्ध्रनाथेन आन्ध्रराजेन । सलिलतरणं जलतरणं तस्य यत्साधनं नौकादि । अनीकं सैन्यम् । द्राक् शीघ्रम्
 
भूषणा ।
 
लयपवनः । 'कलिका कोरकः पुमान्' इत्यमरः । कालाण्डजः । 'वनप्रियः परभृतः पिकः कालाण्डजः स्मृतः' । रक्तरक्ताधराः स्निग्धाः किंनरस्त्रियः । शालीनोऽधृष्टः । 'शालीनकौपीने अधृ- ष्टाकार्ययोः (५।२।२० ) इति निपातः । 'स्यादधृष्टस्तु शालीनः' इत्यमरः ।
 
लघुदीपिका ।
 
पुमान्कालाण्डजः । 'वनप्रियः परभृतः पिकः कालाण्डजः स्मृतः । रक्तरक्ताधराः स्निग्धाः । शालीनो मुग्धः । 'शालीनकौपीने अष्टष्टाकार्ययोः' (५।३।२० ) इति
 
[^१]G. 'चञ्चलकलिके'.
[^२]G. 'नृत्त'.