2023-08-18 17:22:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२४२
 
दशकुमारचरितम् ।
 
हृतसहकारंर [^१]चञ्चरीककलिके, कालाण्डजकण्ठरागरक्तरक्ता- धरारति-
रणाप्ग्रसंनाहशालिनि, शालीनकन्यकान्तःकरणसंक्रान्तरागलङ्घित-
लज्जे, दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालता [^२]नृत्य-
लीले काले, कलिङ्गराजः सहाङ्गनाजनेन सह च तनयया सक-
लेन च नगरजनेन दश त्रीणि च दिनानि दिनकरकिरणजालालङ्घ-
नीये, रणदुलिसङ्घलङ्घितनतलतामकिस- लयाली ढसैकततटे, तरल-
तरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीडारसजातास-
क्तिरासीत् । अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहेलानि-
रर्गलानङ्गसंघर्षहर्षि-तश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्रे आन्ध्रनाथेन
जयसिंहेन सलिलतरणसाधनानी तेना ने कसंख्येनानीकेन द्रागाग-
त्यागृह्यत सकलत्रः । सा चानीयत त्रासतरलाक्षी दयिता नः
सह सखीजनेन कनकलेखा । तदाहं दाहेनानङ्गदहनजनितेनान्त-
[ सप्तमः
 

 
पदचन्द्रिका ।
 

 

 
चञ्चरीका भ्रमराः । कलिकाः कोरकाः । कालाण्डज: कोकिलः । 'वनप्रियः पर-
भृतः पिकः कालाण्डजः स्मृतः' इति वैजयन्ती । रक्तरक्ताधराः स्निग्धाः स्त्रियः ।
शालीनमधृष्टम् । 'शालीनकौपीने अष्टधृष्टाकार्ययोः' (५/२० ) इति निपातः । दर्दु
रं ग्रामजालम् । 'दर्दुरा चण्डिकायां च ग्रामजाले तु दर्दुरम्' इति विश्वः । अथवा

दर्दुरवद्वाद्यभाण्डवद्यद्गिरितटम् । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' इति
मेदिनी । अलङ्घनीये दुर्लङ्घ्ये । अनिलो वायुः । रणन्तः शब्दं कुर्वन्तः । अलयो
भ्रमराः । लताप्ग्रकिसलयानि वल्लयप्रपल्लवानि । सैकतं सिकतामयम् । रणन्तो येऽलि-
सङ्घा भ्रमरसमूहास्तैलघिता अत एव नता या लतास्तासामग्रकिसलयैः आलीढं स्पृष्टं
यत्र । सागरतीरकानने समुद्रतटवने । अथेति । शृङ्गारहेला क्रियानादरः । निरर्ग-
लोऽप्रतिहतः । अनङ्गो मदनः । तत्र रन्ध्रे तत्रावकाशे । आन्ध्रनाथेन आन्ध्रराजेन ।
सलिलतरणं जलतरणं तस्य यत्साधनं नौकादि । अनीकं सैन्यम् । द्राक् शीघ्रम्
 

 
भूषणा ।
 

 
लयपवनः । 'कलिका कोरकः पुमान्' इत्यमरः । कालाण्डजः । 'वनप्रियः परभृतः पिकः
कालाण्डजः स्मृतः' । रक्तरक्ताधराः स्निग्धाः किंनरस्त्रियः । शालीनोऽधृष्टः । 'शालीन-
कौपीने अभृधृ- ष्टाकार्ययोः (५२० ) इति निपातः । 'स्यादधृष्टस्तु शालीनः' इत्यमरः ।

 
लघुदीपिका ।
 

 
पुमान्कालाण्डजः । 'वनप्रियः परभृतः पिकः कालाण्डजः स्मृतः । रक्तरक्ताधराः
वि
स्निग्धाः । शालीनो मुग्धः । 'शालीनकौपीने अष्टष्टाकार्ययोः' (५।३।२० ) इति
पाठा०-1

 
[^१]G.
'चञ्चलकलिके'.
[^
]G. 'नृत्त'.