2023-08-31 13:22:49 by Lakshmainarayana achar

This page has been fully proofread twice.

पनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् । अथागत्य ताश्च-
रणनिहितशिरसः क्षरदस्रकरालितेक्षणा निजशेखरकेसराग्रसं-
लग्नषट्चरणगणरणितसंशयितकलगिरः शनैरकथयन्—'आर्य,
यदत्यादित्यतेजसस्त एषा नयनलक्ष्यतां गता, ततः कृतान्तेन न
गृहीता । दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य रागानलम् ।
तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं राग-
तरलेनालंक्रियतां हृदयम् । तदस्याश्चरितार्थ स्तनतटं गाढालिङ्गनैः
सदृशतरस्य सहचरस्य' इति । ततः सखीजनेनातिदक्षिणेन
दृढतरीकृतस्नेहनिगलस्तया संनताङ्ग्या संगत्यारंसि ।
अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घनग्लान-
घनकेसरे, राजदरण्यस्थलीललाटलीलायिततिलके, ललितानङ्ग-
राजाङ्गीकृतनिर्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरया-
 
पदचन्द्रिका ।
 
शयाना निद्रां कुर्वाणाः । करतलेनालसं यत्संघट्टनं तेनापनीता दूरीकृता निद्रायासामिति । अथेति । क्षरता निःसरता अस्रेणाश्रुणा करालितानि विकृतानीक्षणानि यासां ताः । षट्चरणा भ्रमराः । रणितं शब्दितम् । अत्यादित्यतेजसोऽतिक्रान्तमादित्यस्य तेजो येनेति । नयनलक्ष्यतां नेत्रग्राह्यताम् । ततस्तस्मात्कारणात् । कृता-
न्तेन यमेन । चित्तजेन कामेन । रागानल इच्छाग्निः ।आश्चर्यरत्नेनाश्चर्यश्रेष्ठेन । नलिनाक्षस्य कमलनेत्रस्य । चरितार्थं कृतार्थम् । दक्षिणेन सरलेन । संनतांग्या अरंसि क्रीडां कृतवान् ॥
अथेति । कलिङ्गराजः कर्दननामा सागरतीरकानने क्रीडारसजातासक्तिरासीदित्यन्वयः । किंविधे कानने । आयासितानि जायारहितानाम् । विरहिणामित्यर्थः, चेतांसि यत्र । लालसा लुब्धाः । अलयो भ्रमराः । लङ्घनं घट्टनम् । घनकेसरे
निबिडपुंनागे । 'पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः' इत्यमरः । अथवा घनकेसरे निबिडबकुले । 'अथ केसरे । बकुलः' इति च । लीलायिततिलके शोभायितक्षुरके । 'तिलकः क्षुरकः श्रीमान्' इत्यमरः । ललितोऽनङ्गराजो मदनराजः । निर्निद्रा विकसिताः कर्णिकाराः परिव्याधाः । 'अथ द्रुमोपल: । कर्णिकारः परिव्याधः'
इत्यमरः । दक्षिणो दहनसारथिर्मलयानिलः । रयो वेगः । सहकारा आम्रवृक्षाः ।
 
भूषणा ।
 
आयासितेति । आयासितानि जायारहितानां चेतांसि यत्र । लीलायिततिलके शोभायितवृक्षविशेषे । 'तिलकः क्षुरकः श्रीमान्' इत्यमरः । दक्षिणदहनसारथिर्म
 
२१ द० कु०