2023-08-18 13:57:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २४१
पनीतनिद्राः काश्चिदविधिगतार्थाः सखीरकार्षीत् । अथागत्य ताश्च-

रणनिहितशिरसः क्षरदस्रकरालितेक्षणा निजशेखरकेसराप्ग्रसं
-
लग्नषट्चरणगणरणितसंशयितकलगिरः
शनैरकथयन्—'आर्य,
 
लग्नट्चरणगणरणितसंशयितकलगिरः

यदत्यादित्यतेजसस्त एषा नयनलक्ष्यतां गता, ततः कृतान्तेन न

गृहीता । दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य रागानलम् ।

तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं राग-

तरलेनालंक्रियतां हृदयम् । तदस्याश्चरितार्थ स्तनतटं गाढालिङ्गनैः
सह

सदृ
शतरस्य सहचरस्य' इति । ततः सखीजनेनातिदक्षिणेन

दृढतरीकृतस्नेहनिगलस्तया संनताझ्ङ्ग्या संगत्यारंसि ।
 

अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घनग्लान-

घनकेसरे, राजदरण्यस्थलीललाटलीलायिततिलके, ललितानङ्ग-

राजाङ्गीकृतनिर्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरया-
,
 

 
पदचन्द्रिका ।
 

 
शयाना निद्रां कुर्वाणाः । करतलेनालसं यत्संघट्टनं तेनापनीता दूरीकृता निद्रा
यासामिति । अथेति । क्षरता निःसरता अत्स्रेणाश्रुणा करालितानि विकृतानीक्षणानि
यार्सा
यासां ताः । षटचरणा भ्रमराः । रणितं शब्दितम् । अत्यादित्यतेजसोऽतिक्रान्त-
मादित्यस्य तेजो येनेति । नयनलक्ष्यतां नेत्रग्राह्यताम् । ततस्तस्माह्यताम् । ततस्तस्मात्कारणात् । कृता-

न्तेन यमेन । चित्तजेन कामेन । रागानल इच्छाग्निः । आश्चर्यरत्नेनाश्चर्यश्रेष्ठेन ।
नलिनाक्षस्य कमलनेत्रस्य । चरितार्थं कृतार्थम् । दक्षिणेन सरलेन । संनतांग्या
अरंसि क्रीडां कृतवान् ॥
 

अथेति । कलिङ्गराजः कर्दननामा सागरतीरकानने क्रीडारसजातासक्तिरासी-
दित्यन्वयः । किंविधे कानने । आयासितानि जायारहितानाम् । विरहिणामित्यर्थः,
चेतांसि यत्र । लालसा लुब्धाः । अयो भ्रमराः । लड्डूङ्घनं घट्टनम् । घनकेसरे

निबिडपुंनागे । 'पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः' इत्यमरः । अथवा घनकेसरे
निबिडबकुले । 'अथ केसरे । बकुलः' इति च । लीलायिततिलके शोभायितक्षुरके ।
'तिलकः क्षुरकः श्रीमान्' इत्यमरः । ललितोऽनङ्गराजो मदनराजः । निर्निद्रा
विकसिताः कर्णिकाराः परिव्याधाः । 'अथ द्रुमोपल: । कर्णिकारः परिव्याधः' '

इत्यमरः । दक्षिणो दहनसारथिर्मलयानिलः । रयो वेगः । सहकारा आम्रवृक्षाः ।
 
ww
 

 
भूषणा ।
 

 
आयासितेति । आयासितानि जायारहितानां चेतांसि यत्र । लीलायिततिलके
शोभायितवृक्षविशेषे । 'तिलकः क्षुरकः श्रीमान्' इत्यमरः । दक्षिणदहनसारथिर्म

 
२१० कु०