2023-08-18 13:42:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ सप्तमः
 
शरस्यदायितेन तरङ्गितदशनचन्द्रिकाणि कानिचिदेतान्यक्षराणि

कलकण्ठीकलान्यसृजत् – 'आर्य, केन कारणेनैनं दासजनं

कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणरणिका- तरङ्गिण्यनङ्ग-
सागरे किरसि ? यथा ते चरणसरसिजरजःकणिका तथाहं चिन्त-
नीया । यद्यस्ति दया तेऽत्रजने, अनन्यसाधारणः करणीयः
स एष चरणाराधनक्रियायाम् । यदि च कन्यागाराध्यासने रहस्यक्ष-
रणादनर्थं आशङ्ख्क्येत, नैतदस्ति । रक्ततरा हि नस्तन्त्र सख्यश्चे-
ट्यञ्श्च । यथा न कश्चिदेतज्ज्ञास्यति तथा यतिष्यन्ते' इति । स

चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यति निर्दयं ताडितस्त-

त्कटाक्षकालायसनिगडगाढसंयतः किंकरानननिहितदृष्टिरगादि-

षम् – 'यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयं, नयेत

नक्रकेतनः क्षणेनैकेनी [^१]नाकीर्तनीयां दशाम् । जनं चैनं सह नया-

नया कन्यया कन्यागृहं हरिणनयनया' इति । नीतश्चाहं निशा-

चरेण शारदजलधरजालकान्ति कन्यकानिकेतनम् । तत्र च

कांचित्कालकलां चन्द्राननानिदेशाच्चन्द्रशालैकदेशे तद्दर्शनचलित-

धृतिरतिष्ठम् । सा च स्वच्छन्दं शयानाः करतलालससंघट्टना-

 
पदचन्द्रिका ।
 

 
निपातः तद्वदाचरति स तथा तेन । तरङ्गिता तरङ्गं प्राप्ता । एतानि वक्ष्यमा-
णानि । कलकण्ठी कोकिला । कलानि गम्भीराणि । आर्येति । एनं दासजनम् ।
मद्रूपमित्यर्थः । कालहस्ताद्यमहस्तात् । रागानिल इच्छावायुः । रणरणिका व्याक्कु-
लता सैव तरङ्गा यस्मिन्निति । अनङ्गसागरे मदमसमुद्रे । चरणसरसिजं पदपद्मम् ।

अत्र जने मत्स्वरूपे । नान्यसाधारणोऽनन्यसाधारणः । अत्युच्चैरित्यर्थः । रहस्यं
गोप्यम् । क्षरणमन्यत्र प्रकटीभावः । स चाहमिति । मन्त्रगुप्त इत्यर्थः । देहजेन
मदनेन । सायकासनं धनुः । कालायसं लोहम् । निगडं शृङ्खलादि । रथचरणं
चक्रम् । नक्रकेतनः कामः । अकीर्तनीयामवचनीयाम् । दशामवस्थाम् । एनं जनं
मद्रूपम् । अनया कन्यया । हरिणनयनया मृगलोचनया । नीतश्चेति । शारद,
जलधरः शरन्मेघः । निकेतनं गृहम् । कालकलां कालस्य समयस्य कलां लेशम् ।
चन्द्रशालोर्ध्वगृहम् । 'चन्द्रशाला शिरोगृहम्' इत्यमरः । स्वच्छन्दं निरवग्रहम् ।

 
भूषणा ।
 

 
उत्पद्यतेऽसौ स मानः (?) । स्यदायितेन । 'स्यदो जवे' इति निपातः । जवायितेन
चन्द्रशालैकदेशे। 'चन्द्रशाला शिरोगृहम्' । रणरणिका तरंगिणी । वेगशैघ्योय्रोभयम् ।
पाठा० -

 
[^
]G. 'कीर्तनीयाम्'.
 
२४०
 
D