2023-08-31 13:23:08 by Lakshmainarayana achar

This page has been fully proofread twice.

इत्यनंसीत् । आदिशं च तम् – 'सखे, सैषा सज्जनाचरितासरणिः, यदणीयसि कारणेऽनणीयानादरः संदृश्यते । न चेदिदं
नेच्छसि सेयं संनताङ्गयष्टिरक्लेशार्हा सत्यनेनाकृत्यकारिणात्यर्थं
क्लेशिता, तन्नयैनां निजनिलयं, नान्यदितः किंचिदस्ति चित्ताराधनं इति । अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजायितां [^१]धीरतरलतारकां दृशं तिर्यक्किंचिदञ्चितां संचारयन्ती,
सलिलचरकेतनशरासनानतां चिल्लिकालतां ललाटरङ्गस्थलीनर्तकीं लीलालसं [^२]लालयन्ती, कण्टकितरक्तगण्डलेखा, रागलज्जान्तरालचारिणी, चरणाग्रेण तिरश्चीननखार्चिश्चन्द्रिकेव धरणितलं साचीकृताननसरसिजं लिखन्ती, दन्तच्छदकिसलयलङ्घिना हर्षास्रसलिलधाराशीकरकण- जालक्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यताऽस्या-न्तरालनिःसृतेन [^३]तनीयसानिलेन हृदयलक्ष्यदलनदक्षिणरति- [^४]सहचर-
 
पदचन्द्रिका ।
 
मिति । सरणिः पद्धतिः । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः । अणीयस्यल्पे । संनता नम्रा । अकृत्यकारिणा- समीचीनकारकेण । नय प्रापय । निजनिलयं स्वगृहम् । कर्णशेखरे कर्णोच्चप्रदेशे । निलीनं लग्नम् । नीलनीरजं नीलोत्पलम् । धीरा निश्चला । तरला चञ्चला । तिर्यग्वक्रम् । सलिलचरो जलचरो
मत्स्यः केतनमस्येति । मदनस्येत्यर्थः । शरासनं धनुस्तद्वदानतां वक्राम् । चिल्लिकालतां भ्रूलतावल्लीं भ्रूमध्यमध्वजः ( ? ) । ललाटमेव रङ्गस्थली तत्र नर्तकी । लीलालसं लीलासौम्यम् । 'अलसं मन्दसौम्ययोः' इत्यजयः । कण्टकिता ।
'तदस्य संजातं ' (५।२।३६) इतीतच् । गण्डलेखा गण्डपाली । राग इच्छा । लज्जा व्रीडा । तयोरन्तरालं मध्यस्तत्र चारिणी वर्तमाना । तिरश्चीनो वक्रो नखस्तस्यार्चिरेव चन्द्रिका यस्येति स तथा तेन । साचीकृतं वक्रीकृतम् । आननसरसिजं वक्त्रकमलम् । दन्तच्छदकिसलयमोष्ठपल्लवम् । लङ्घयतीति लङ्गी तेन । क्लेदितं विकलीकृतम् । अस्यान्तरालं मुखमध्यम् । तनीयसा मन्देन । अनिलेन वायुना । हृदयमेव लक्ष्यं वेध्यम् । दलनं भेदनम् । दक्षिणः सरलः । 'दक्षिणे सरलोदारौ' इत्यमरः । रतिसहचरो मदनस्तस्य शरो बाणः । स्यदायितेन । 'स्यदो जवे' इविं
 
भूषणा ।
 
इति कर्मता । सरणिर्मार्गः । 'न चेदिच्छसीदम्' इति पाठः । इदं मदुक्तम् । अणीयसिं कारणे नणीयानादर इति नेच्छसीत्यर्थः । चिल्लिकालतां भ्रूलताम् । लीलालसं लीलामन्दम् । 'अलसं मन्दसौम्ययोः' इत्यजयः । हृदयलक्ष्येति । हृदये लक्ष्यतं
 
[^१]G. 'धीरेतरतारकाम्'.
[^२]G. 'लासयन्ती'.
[^३]G. 'अवनीयसा'-
[^४]G.'सहचरशरस्य दयितेन'; 'सहचरसायकस्य दयितेन'.