This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । २३९
इत्यनंसीत् । आदिशं च तम् – 'सखे, सैषा सज्जनाचरिता
सरणिः, यदणीयसि कारणेऽनणीयानादरः संदृश्यते । न चेदिदं
नेच्छसि सेयं संनताङ्गयष्टिरक्लेशा सत्यनेनाकृत्यकारिणात्यर्थं
केशिता, तन्नयैनां निजनिलयं, नान्यदितः किंचिदस्ति चित्ता-
राधनं इति । अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजा-
यितां धीरैतरलतारकां दृशं तिर्यक्किंचिदचितां संचारयन्ती,
सलिलचर केतनशरासनानतां चिल्लिकालतां ललाटरङ्गस्थलीनर्तकों
लीलालसं लोलयन्ती, कण्टकितरक्तगण्डलेखा, रागलजान्तराल-
चारिणी, चरणाग्रेण तिरश्चीननखार्चिश्चन्द्रिकेव धरणितलं साची -
कृताननसरसिजं लिखन्ती, दन्तच्छदकिसलयलङ्घिना हर्षास्र सलिल -
धाराशीकरकणजालक्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यताऽस्या-
न्तरालनिःसृतेन तँनीयसानिलेन हृदयलक्ष्यदलनदक्षिणरतिसेंहचर-
,
 
पदचन्द्रिका ।
 
मिति । सरणिः पद्धतिः । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः ।
अणीयस्यल्पे । संनता नम्रा । अकृत्यकारिणासमीचीनकारकेण । नय प्रापय
निजनिलयं स्वगृहम् । कर्णशेखरे कर्णोच्चप्रदेशे । निलीनं लग्नम् । नीलनीरजं
नीलोत्पलम् । धीरा निश्चला । तरला चञ्चला । तिर्यग्वत्रम् । सलिलचरो जलचसे
मत्स्यः केतनमस्येति । मदनस्येत्यर्थः । शरासनं धनुस्तद्वदानतां वक्राम् । चिलि-
कालतां भ्रूलतावल्लीं भ्रूमध्यमध्वजः ( ? ) । ललाटमेव रजस्थली तत्र नर्तकी ।
लीलालसं लीलासौम्यम् । 'अलसं मन्दसौम्ययोः' इत्यजयः । कण्टकिता ।
'तदस्य संजातं ' (५॥२॥३६) इतीतच् । गण्डलेखा गण्डपाली । राग इच्छा । लजा
व्रीडा । तयोरन्तरालं मध्यस्तत्र चारिणी वर्तमाना । तिरश्चीनो वक्रो नखस्तस्यार्चिरेव
चन्द्रिका यस्येति स तथा तेन । साचीकृतं वक्रीकृतम् । आननसरसिजं वक्रकम-
लम् । दन्तच्छदकिसलयमोष्ठपल्लवम् । लङ्घयतीति लड्डी तेन । केदितं विकली-
कृतम् । अस्यान्तरालं मुखमध्यम् । तनीयसा मन्देन । अनिलेन वायुना । हृदु-
यमेव लक्ष्यं वेध्यम् । दलनं मेदनम् । दक्षिणः सरलः । 'दक्षिणे सरलोदारौ
इत्यमरः । रतिसहचरो मदनस्तस्य शरो बाणः । स्यदायितेन । 'स्यदो जवे' इविं
 
भूषणा ।
 
इति कर्मता । सरणिर्मार्गः । 'न चेदिच्छसीदम्' इति पाठः । इदं मदुक्तम् । अणीयर्सिं
कारणे नणीयानादर इति नेच्छसीत्यर्थः । चिल्लिकालतां भूलताम् । लीलालसं
लीलामन्दम् । 'अलसं मन्दसौम्ययोः' इत्यजयः । हृदयलक्ष्येति । हृदये लक्ष्यतं
 
पाठा० - १ 'धीरेतरतारकाम्'. २ 'लासयन्ती'. ३ 'अवनीयसा'-
● 'सहचरशरस्य दयितेन'; 'सहचरसायकस्य दयितेन'.