2023-08-16 06:26:37 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

रणिकागृहीतेन च हृदयेन ' हा तात, हा जननि' इति क्रन्दन्तीं
कीर्णग्लानशेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना
[^१]शिलासितेन शिरश्चिकर्तिषयाचेष्टत । झटिति चाच्छिद्य तस्य
हस्तात्तां शस्त्रिकां तया निकृत्य तच्छिरः सजटाजालं
निकटस्थस्य कस्यचिज्जीर्णसालस्य स्कन्धरन्ध्रे [^२]न्यदधाम् । तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत् – 'आर्य, कदर्य-
स्यास्य कदर्थनान्न कदाचिन्निद्रायाति नेत्रे । तर्जयति त्रासयति
च, अकृत्ये चाज्ञां ददाति । तदत्र कल्याणराशिना साधीयः
कृतं यदेष नरकाकः कारणानां नारकीणां रसज्ञानाय [^३]नीत:
शीतेतरदीधितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्तेऽयं
जनः कांचिदाज्ञां चिकीर्षति । आदिश, अलं कालहरणेन'
 
पदचन्द्रिका ।
 
कौत्सुक्यम् । 'औत्सुक्यं रणरणिका' इति महीपः । शीर्णनहने श्लथबन्धने । संचयः समूहः । असिना खङ्गेन । शिलासितेन शिलावदसितः श्यामः । शिरश्चिकर्तिषया शिरःकर्तनेच्छया । झटिति शीघ्रम् । तया शस्त्रिकया । आच्छिद्यापकृष्य ।
'आच्छेदनं स्यादाक्षेपः' इति वररुचिः । तच्छिरः ।होमकर्तुर्मस्तकमित्यर्थः । निकटस्थस्य समीपवर्तिनः ।जीर्णसालस्य जीर्णवृक्षस्य । न्यधां निवेशितवान् । निध्यायालोक्य । स इति । किंकर इत्यर्थः । क्षीणाधिर्गतमानसव्यथः । कदर्यस्य
कृपणस्य । 'कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः' इत्यमरः । कदर्थनात्क्लेशनात् । 'क्लेशनं तु कदर्थनम्' इति । अकृत्येऽपकारे । कल्याणराशिना कुशलपुञ्जेन । साधीयोऽतिशयेन साध्विति तथा । नरकाको मनुष्यनिन्द्यः । कारणानां यातनानाम् ।
'कारणा तीव्रयातना' इत्यमरः । नारकीणां नरकसंबन्धिनीनाम् । शीतेतरदीधितिः सूर्यस्तद्देहृजस्य । यमस्येत्यर्थः ।दयानिधेर्दयासिन्धोः । अयं जनो मद्रूपः । कालहरणेन कालातिपातेन । शीघ्रमित्यर्थः । अनंसीत् । 'णम प्रह्वत्वे'आदिश-
 
भूषणा ।
 
चास्रमश्रु च ' इत्यमरः । रणरणिकागृहीतेनोपलक्षिता नासादिजनतोदयदेशेऽभ्यन्तरे आघातो रणरणिका । नहनं बन्धनम् । आच्छिद्यापकृष्य । 'तस्य हस्तादसिलतां ताम्' इति पाठः । सालो वृक्षः । 'अनोकहः कुटः सालः' इत्यमरः । स्कन्धाः शाखाः । 'समे शाखालते स्कन्ध -' इत्यमरः । निध्याय निर्वर्ण्य । 'निर्वर्णनं तु
निध्यानम्' इत्यमरः । कदर्थनात्क्लेशनात् । नगरम् । 'अकर्मकधातुभिर्योगे' (वा० )
 
[^१]G. 'शिलाशितेन'.
[^२]G. 'न्यधीषि'.
[^३]G. 'नीतः शेते नगरे'.