This page has not been fully proofread.

२३८
 
दशकुमारचरितम् ।
 
[ सप्तमः
 
रणिकागृहीतेन च हृदयेन ' हा तात, हा जननि' इति ऋन्दन्तीं
कीर्णग्लान शेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना
शिलासितेन शिरश्चिकर्तिषयाचेष्टत । झटिति चाच्छिद्य तस्य
हस्तात्तां शत्रिकां तया निकृत्य तच्छिरः सजटाजालं
निकटस्थस्य कस्यचिज्जीर्णसालस्य स्कन्धरन्ध्रे न्यैदधाम् । तन्नि-
ध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत् – 'आर्य, कदर्य-
स्यास्य कदर्शनान्न कदाचिन्निद्रायाति नेत्रे । तर्जयति त्रासयति
च, अकृत्ये चाज्ञां ददाति । तदुत्र कल्याणराशिना साधीयः
कृतं यदेष नरकाकः कारणानां नारकीणां रसज्ञानाय नीतैः
शीतेतर दीधितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्तेऽयं
जनः कांचिदाज्ञां चिकीर्षति । आदिश, अलं कालहरणेन'
 
,
 
पदचन्द्रिका ।
 
कौत्सुक्यम् । 'औत्सुक्यं रणरणिका' इति महीपः । शीर्णनहने लथबन्धने ।
संचयः समूहः । असिना खङ्गेन । शिलासितेन शिलावदसितः श्यामः । शिरश्चिक-
तिषया शिरःकर्तनेच्छया । झटिति शीघ्रम् । तया शस्त्रिया । आच्छिद्यापकृष्य ।
 

 
'आच्छेदनं स्यादाक्षेपः' इति वररुचिः । तच्छिरः । होमकर्तुर्मस्तकमित्यर्थः ।
 
निकटस्थस्य समीपवर्तिनः । जीर्णसालस्य जीर्णवृक्षस्य । न्यधां निवेशितवान् ।
निध्यायालोक्य । स इति । किंकर इत्यर्थः । क्षीणाधिर्गतमानसव्यथः । कदर्यस्य
कृपणस्य । 'कदर्ये कृपणक्षुद्रकिं पचानमितंपचाः' इत्यमरः । कदर्थनात्क्लेशनात् ।
'केशनं तु कदर्शनम्' इति । अकृत्येऽपकारे । कल्याणराशिना कुशलपुजेन । साधी-
योऽतिशयेन साध्विति तथा । नरकाको मनुष्यनिन्द्यः । कारणानां यातनानाम् ।
'कारणा तीव्रयातना' इत्यमरः । नारकीणां नरकसंबन्धिनीनाम् । शीतेतरदीधितिः
सूर्यस्तद्देहृजस्य । यमस्यैत्यर्थः । दयानिधेर्दयासिन्धोः । अयं जनो मद्रूपः । काल-
हरणेन कालातिपातेन । शीघ्रमित्यर्थः । अनंसीत् । 'णम प्रहृत्वे' । आदिश-
C
 
भूषणा ।
 
चासमक्षु च ' इत्यमरः । रणरणिकागृहीतेनोपलक्षिता नासादिजनतोदयदेशेऽभ्य-
न्तरे आघातो रणरणिका । नहनं बन्धनम् । आच्छिद्यापकृष्य । 'तस्य हस्तादसि-
लतां ताम्' इति पाठः । सालो वृक्षः । 'अनोकहः कुटः सालः' इत्यमरः । स्कन्धाः
शाखाः । 'समे शाखालते स्कन्ध -' इत्यमरः । निध्याय निर्वर्ण्य । 'निर्वर्णनं तु
निभ्यानम्' इत्यमरः । कदर्थनात्क्लेशनात् । नगरम् । 'अकर्मकधातुभिर्योोंगे' (वा० )
 
पाठा०-१ 'शिलाशितेन'. २ 'न्यधीषि'. ३ 'नीतः शेते नगरे'.