This page has not been fully proofread.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
१३
 
निवसतीति जलबुद्बुदुसमाना विराजमाना संपत्तडिल्लतेव सहसै-
वोदेति नश्यति च । तन्निखिलं दैवायत्तमेवावधार्य कार्यम् । किं
च पुरा हरिश्चन्द्ररामचन्द्रमुख्या असंख्या महीन्द्रा ऐश्वर्योपमि-
तमहेन्द्रा दैवतत्रं दुःखयत्रं सम्यगनुभूय पश्चाद्नेककालं निर्ज-
राज्यमकुर्वन् । तद्वदेव भवान्भविष्यति । कंचन कालं विरचित-
दैवसमाधिर्गताधिस्तिष्ठतु तावत्' इति ।
 
ततः सकलसैन्यसमन्वितो राजहंसस्तपोविभ्राजमानं वामदेव-
नामानं तपोधनं निजाभिलाषावाप्तिसाधनं जगाम । तं प्रणम्य
तेन कृतातिथ्यस्तस्मै कथितकथ्यस्तदाश्रमे दूरीकृतश्रमे कंचन
कालमुषित्वा निजराज्याभिलाषी मितभाषी सोमकुलावतंसो राज-
हंसो मुनिमभाषत – 'भगवन्, मानसारः प्रबलेन दैवबलेन मां
निर्जित्य मद्भोग्यं राज्यमनुभवति । तद्वदहमप्युग्रं तपो विरच्य
तमरातिमुन्मूलयिष्यामि लोकशरण्येन भवत्कारुण्येनेति नियमवन्तं
भवन्तं प्राप्नवम्' इति । ततस्त्रिकालज्ञस्तपोधनो राजानमवोचत्-
PROFITTA
 
गर्' इत्यादेशाः । जलस्य बुहुदो विकारस्तत्समाना तत्सदृशी । तडिल्लता विद्युत् ।
सहसा अकस्मात् । उदेत्युद्गच्छति दृक्पथमायाति । नश्यत्यदर्शनतामेति । निखिलं
सर्वम् । दैवायत्तं दैवाधीनम् । अवधार्य निर्णेतव्यम् । हरिश्चन्द्र, रामचन्द्र इति
प्रसिद्धराजनामनी, एतौ मुख्यौ येषां ते । ऐश्वर्येण विभवेनोपमितस्तुल्यीकृतो
महेन्द्रो देवराजो यैस्ते । दैवतन्त्रं दैवचालितम् । दुःखदुःखमेव यन्त्रं तत् ।
विरचिता दैवसमाधिर्येन तथा । गत आधिर्यस्य सः ।
 
तत इति । समन्वितो युक्तः । तपसा विशेषेण भ्राजतेऽसौ तम् । तप एव
धनं यस्य तम् । निजोऽभिलाषस्तस्यावाप्तिः प्राप्तिस्तस्य साधनं साधनभूतम् ।
जगाम । 'गम्ऌ गतौ' इत्यस्य लिटि रूपम् । कृतमातिथ्यं यस्य सः । कथितं निवे-
दितं कथ्यं कथयितुं योग्यं सर्व येनैतादृशः । तदाश्रम इति । दूरीकृतः श्रमो
यत्रैतादृशे । उषित्वा । 'वस निवासे' । क्त्वो रूपम् । 'ग्रहिज्या -' (६।१।१६ )
इति संप्रसारणम् । 'वसतिक्षुधोरिट्' (७७२/५२ ) इतीडागमः । 'शासिवसिघ-
सीनां च ' ( ८।३।६० ) इति षत्वम् । सोमकुलस्य चन्द्रवंशस्यावतंसो भूषणं ललाम-
भूतः । मानसार इति राजनाम । मया भोग्यं भोक्तव्यम् । 'भोज्यं भक्ष्ये' (भोग्य-
मन्यत् ) इति जकारस्य गकारः । अरातिं शत्रुम् । 'अभिघातिपराराति-'
इत्यमरः । उन्मूलयिष्याम्युन्मूलयितुमुद्यतोऽस्मि । लोकानां शरणे रक्षणे साधुः
 
पाठा० - १ 'निजकार्यम्'.
 
२५० कु०