2023-08-16 06:11:30 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

खलेनानेन दग्धसिद्धेन रिरंसाकाले निदेशं दित्सता जन एष
रागेणानर्गलेनार्दित इत्थं [^१]खलीकृतः । क्रियेतास्याणकनरेन्द्रस्य
केनचिदनन्तशक्तिना सिद्ध्यन्तरायः' इति किंकरस्य किंकर्याश्चातिकातरं रटितं तदाकर्ण्य 'क एष सिद्धः, का च सिद्धिः, किं चानेन किंकरेण करिष्यते' इति दिदृक्षाक्रान्तहृदयः किंकरगतया दिशा किंचिदन्तरं गतस्तरलतरनरास्थिशकल- रचितालंकाराक्रान्तकायम्, दहनदग्धकाष्ठनिष्ठाङ्गाररजः- कृताङ्गरागम्, तडिल्लताकारजटाधरम्, हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणगृहीतना-नेन्धनप्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीन्नि-
रन्तरचटचटायितानाकिरन्तं कंचिदद्राक्षम् । तस्याग्रे स कृता-
ञ्जलिः किंकरः 'किं करणीयम् दीयतां निदेशः' इत्यतिष्ठत् ।
आदिष्टश्चायं तेनातिनिकृष्टाशयेन —–'गच्छ, कलिङ्गराजस्य कर्द-
नस्य कन्यां कनकलेखां कन्यागृहादिहानय' इति । स च तथा-
कार्षीत् । ततश्च तां त्रासेनालघीयसास्रजर्जरेण च कण्ठेन रण-
 
पदचन्द्रिका ।
 
स्पर्शिनीम् । 'णिसि चुम्बने । रिरंसा रन्तुमिच्छा । अनर्गलेनाप्रतिबद्धेन । खलीकृतः प्रतिहतः । अणकः कुत्सितः । 'पापाणके कुत्सितैः' इति । तरलतराण्यत्युज्ज्वलानि । 'तरलो हाररत्ने च चञ्चले चोज्ज्वलेऽपि च' इति केशवः । नरास्थि मनुष्यास्थि । शकलं खण्डम् । अलंकार आभरणम् । निष्ठाङ्गाररजः । भस्मेत्यर्थः । 'निष्ठानिष्पत्तिनाशान्ताः' इति । तडिल्लता विद्युल्लता । हिरण्यरेतसि वह्नौ । 'हिरण्यरेता हुतभुक्' इत्यमरः । नानाविधानीन्धनानि काष्ठानि । अर्चिर्ज्वाला । दक्षिणेतरेण । वामेनेत्यर्थः । आकिरन्तं क्षिपन्तम् । अद्राक्षम् ।
दृष्टवानित्यर्थः । तस्येति होमकर्तुः । निदेश आज्ञा । तेन होमकर्त्रा । निकृष्टो नीच आशयो मनो यस्येति तेन । कर्दन इति कलिङ्गराजनाम । अस्त्रजर्जरेणाश्रुक्लिन्नेन । 'अस्रःर: कोणे शिरसिजे चास्त्रमश्रूणि शोणिते' इति विश्वः । रणरणि-
 
भूषणा ।
 
'रिङ्शयक्-' (७।४।२८) इति रिङादेशे सीयुटि यलनेलोपे सलोपे रूपम् । आणकनरेन्द्रेति । कुत्सितमन्त्रज्ञस्य । 'कुपूयकुत्सिताव- द्यखेटगर्ह्याणकाः समाः' इत्यमरः । तरलतरनरास्थीत्यादि । 'तरलो हाररत्ने च चञ्चले चोज्ज्वलेऽपि च' इति केशवः । 'शल्कं शकलमस्त्रियाम्' । कर्दन इति कलिङ्गराजस्य नाम। अस्त्रजर्जरेण 'रोदनं
 
[^१]G. 'खिलीकृत:'.