2023-08-16 06:05:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्क्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२३७
 
खलेनानेन दग्धसिद्धेन रिरंसाकाले निदेशं दित्सता जन एष

रागेणानर्गलेनार्दित इत्थं खे[^१]खलीकृतः । क्रियेतास्याणकनरेन्द्रस्य

केनचिदनन्तशक्तिना सिद्ध्यन्तरायः' इति किंकरस्य किंकर्याश्चाति-
कातरं रटितं तदाकर्ण्य 'क एष सिद्धः, का च सिद्धिः, किं
चानेन किंकरेण करिष्यते' इति दिदृक्षाकाक्रान्तहृदयः किंकरगतया
दिशा किंचिदन्तरं गतस्तरलतरनरास्थिशकल- रचितालंकाराकान्त-
क्रान्तकायम्, दहनदग्धकाष्ठनिष्ठाङ्गाररजः- कृताङ्गरागम्, तडिल्लताकार-
जटाधरम्, हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणगृहीतना-
नेन्धनप्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीन्नि-

रन्तरचटचटायितानाकिरन्तं कंचिद॒द्राक्षम् । तस्यामेग्रे स कृता-

ञ्जलिः किंकरः 'किं करणीयम् दीयतां निदेशः' इत्यतिष्ठत् ।

आदिष्टश्चायं तेनातिनिकृष्टाशयेन —–'गच्छ, कलिङ्गराजस्य कर्द-

नस्य कन्यां कनकलेखां कन्यागृहादिहानय' इति । स च तथा-

कार्षीत् । ततश्च तां त्रासेनालघीयसास्रजर्जरेण च कण्ठेन रण-

 
पदचन्द्रिका ।
 

 
स्प
र्शिनीम् । 'णिसि चुम्बने । रिरंसा रन्तुमिच्छा । अनर्गलेनाप्रतिबद्धेन । खली-
कृतः प्रतिहतः । अणकः कुत्सितः । 'पापाणके कुत्सितैः' इति । तरलतरा-
ण्यत्युज्ज्वलानि । 'तरलो हाररत्ने च चञ्चले चोज्ज्वलेऽपि च' इति केशवः ।
नरास्थि मनुष्यास्थि । शकलं खण्डम् । अलंकार आभरणम् । निष्ठाङ्गाररजः ।
भस्मेत्यर्थः । 'निष्ठानिष्पत्तिनाशान्ताः' इति । तडिल्लता विद्युल्लता । हिरण्यरे-
तसि वहौह्नौ । 'हिरण्यरेता हुतभुक्' इत्यमरः । नानाविधानीन्धनानि काष्ठानि ।
अर्चिर्ज्वाला । दक्षिणेतरेण । वामेनेत्यर्थः । आकिरन्तं क्षिपन्तम् । अद्राक्षम् ।

दृष्टवानित्यर्थः । तस्येति होमकर्तुः । निदेश आज्ञा । तेन होमकर्त्रा । निकृष्टो
नीच आशयोंयो मनो यस्येति तेन । कर्दन इति कलिङ्गराजनाम । अस्त्रजर्जरेणा-
श्रुक्लिन्नेन । 'अस्रः कोणे शिरसिजे चास्त्रश्रूणि शोणिते' इति विश्वः । रणरणि-

 
भूषणा ।
 

 
'रिङ्शयक्-' (७२८) इति रिङादेशे सीयुटि यलनेपे सलोपे रूपम् । आणक-
नरेन्द्रेति । कुत्सितमन्त्रज्ञस्य । 'कुपूयकुत्सिताव- द्यखेटगर्ह्याणकाः समाः' इत्यमरः ।
तरलतरनरास्थीत्यादि । 'तरलो हाररत्ने च चञ्चले चोज्ज्वलेऽपि च इवि
' इति केशवः । 'शल्कं शकलमस्त्रियाम्' । कर्दन इति कलिङ्गराजस्य नाम। अस्त्रजर्जरेण 'रोदनं
 
पाठा०-

 
[^
]G. 'खिलीकृत:'.