This page has not been fully proofread.

उच्क्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२३७
 
खलेनानेन दग्धसिद्धेन रिरंसाकाले निदेशं दित्सता जन एष
रागेणानर्गलेनार्दित इत्थं खेलीकृतः । क्रियेतास्याणकनरेन्द्रस्य
केनचिदनन्तशक्तिना सिद्ध्यन्तरायः' इति किंकरस्य किंकर्याश्चाति-
कातरं रटितं तदाकर्ण्य 'क एष सिद्धः, का च सिद्धिः, किं
चानेन किंकरेण करिष्यते' इति दिदृक्षाकान्तहृदयः किंकरगतया
दिशा किंचिदन्तरं गतस्तरलतरनरास्थिशकलरचितालंकाराकान्त-
कायम्, दहनदग्धकाष्ठनिष्ठाङ्गाररजः कृताङ्गरागम्, तडिल्लताकार-
जटाधरम्, हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणगृहीतना-
नेन्धनप्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीन्नि-
रन्तरचटचटायितानाकिरन्तं कंचिद॒द्राक्षम् । तस्यामे स कृता-
ञ्जलिः किंकरः 'किं करणीयम् दीयतां निदेशः' इत्यतिष्ठत् ।
आदिष्टश्चायं तेनातिनिकृष्टाशयेन —–'गच्छ, कलिङ्गराजस्य कर्द-
नस्य कन्यां कनकलेखां कन्यागृहादिहानय' इति । स च तथा-
कार्षीत् । ततश्च तां त्रासेनालघीयसास्रजर्जरेण च कण्ठेन रण-
पदचन्द्रिका ।
 
सर्शिनीम् । 'णिसि चुम्बने । रिरंसा रन्तुमिच्छा । अनर्गलेनाप्रतिबद्धेन । खली-
कृतः प्रतिहतः । अणकः कुत्सितः । 'पापाणके कुत्सितैः' इति । तरलतरा-
ण्यत्युज्वलानि । 'तरलो हाररने च चञ्चले चोज्वलेऽपि च इति केशवः ।
नरास्थि मनुष्यास्थि । शकलं खण्डम् । अलंकार आभरणम् । निष्ठाङ्गाररजः ।
भस्मेत्यर्थः । 'निष्ठानिष्पत्तिनाशान्ताः' इति । तडिल्लता विद्युल्लता । हिरण्यरे-
तसि वहौ । 'हिरण्यरेता हुतभुक्' इत्यमरः । नानाविधानीन्धनानि काष्ठानि ।
अर्चिवला । दक्षिणेतरेण । वामेनेत्यर्थः । आकिरन्तं क्षिपन्तम् । अद्राक्षम् ।
दृष्टवानित्यर्थः । तस्येति होमकर्तुः । निदेश आज्ञा । तेन होमकर्त्रा । निकृष्टो
नीच आशयों मनो यस्येति तेन । कर्दन इति कलिङ्गराजनाम । अत्रजर्जरेणा-
श्रुक्लिन्नेन । 'अस्रः कोणे शिरसिजे चामणि शोणिते' इति विश्वः । रणरणि-
भूषणा ।
 
'रिङ्शयक्-' (७॥४॥२८) इति रिङादेशे सीयुटि यलनेपे सलोपे रूपम् । आणक-
नरेन्द्रेति । कुत्सितमन्त्रज्ञस । 'कुपूयकुत्सिताषयखेटगर्ह्याणकाः समाः' इत्यमरः ।
तरलतरनरास्थीत्यादि । 'तरलो हाररने च चहले चोजवलेऽपि च इवि
केशवः । 'शल्कं शकलमस्त्रियाम्' । कर्दन इति कलिङ्गराजस्य नाम। अत्रजर्जरेण 'रोदनं
 
पाठा०-१ 'खिलीकृत:'.