2023-08-31 13:23:32 by Lakshmainarayana achar

This page has been fully proofread twice.

श्रुत्वा 'चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः'
इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं
चक्षुः पातयामास देवो राजवाहनः । स किल करकमलेन किंचि-
त्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलाधर-
मणिर्निरोष्ठ्यवर्णमात्मचरितमाचक्षते-
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः ।
 
सप्तमोच्छ्वासः ।
 
राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः
कदाचित्कलिङ्गान् । कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाह-
स्थानसंसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलय-
संस्तरे तले निषद्य निद्रालीढदृष्टिरशयिषि । गलति च कालरात्रि-
शिखण्डजालकान्धकारे, चलितरक्षसि क्षरितनीहारे निजनिलय-
निलीननिःशेषजने नितान्तशीते निशीथे घनतरसालशाखान्त-
रालनिर्ह्रादिनि नेत्रनिंसिनीं निद्रां निगृह्णन्, कर्णदेशं गतं 'कथं
 
पदचन्द्रिका ।
 
पुष्कलो महान् । पुरुषकारः पुरुषार्थः । स्मितेन हास्येन । अभिषिक्तः सिञ्चितः । दन्तच्छद ओष्ठः ।निरोष्ठ्यवर्णमोष्ठोच्चा- र्यवर्णरहितम् ॥
 
इति श्रीदशकुमारटीकायां पदचन्द्रिकाभिधायां षष्ठ उच्छ्वासः ॥
 
इदानीं मन्त्रगुप्तः स्वचरितं वक्तुमुपक्रमते । अत्यासन्नमतिसमीपम् । 'कान्तारं वर्त्म दुर्गमम्' इत्यमरः । आलीढा व्याप्ता ।शिखण्डजालं केशसमूहः । चलितरक्षसीत्यनेन रात्रिंचरत्वद्योतनम् । क्षरितनीहारे निःसृतहिमे । निलयं गृहम् । निलीनाः स्थिताः । साला वृक्षाः । 'वृक्षो महीरुहः सालः' इति । नेत्रनिंसिनीं नेत्र-
 
भूषणा ।
 
त्थितो देशः । निष्कलो वृद्धः । उपरन्तुं मरणं कर्तुम् ॥
 
इति श्रीदशकुमारटीकायां भूषणाभिधायां षष्ठ उच्छ्वासः ॥
 
संस्थितो मृतः । 'परेतप्रेतसंस्थिताः' इत्यमरः । सरसमार्द्रम् । नेत्रनिंसिनीं नेत्रस्पर्शिनीम् । 'णिति चुम्बने' । क्रियेत । कर्मणि संभावनायां लिङ् । यकि
 
लघुदीपिका ।
 
स्वयम्' (?) इति बृहत्कथायाम् । भार्गवो ज्यौतिषिकः ॥
इति षष्ठ उच्छ्वासः ॥