2023-08-16 05:49:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२३६
 
दशकुमारचरितम् ।
 
[सप्तमः
 
श्रुत्वा 'चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः'

इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं

चक्षुः पातयामास देवो राजवाहनः । स किल करकमलेन किंचि-

त्संवृताननो ललितवल्लभारभसद्त्तदन्तक्षतव्यसनविह्वलाधर-
मणिर्नि-
रोष्ठ्यवर्णमात्मचरितमाचक्षते-

 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः ।
 

 
सप्तमोच्छ्रावासः ।
 

 
राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः

कदाचित्कलिङ्गान् । कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाह-

स्थानसंसकस्य
 
कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलय-

 

संस्तरे तले निषद्य निद्रालीढदृष्टिरशयिषि । गलति च कालरात्रि-

शिखण्डजालकान्धकारे, चलितरक्षसि क्षरितनीहारे निजनिलय-

निलीननिःशेषजने नितान्तशीते निशीथे घनतरसालशाखान्त-

रालनिर्ह्रादिनि नेत्रनिंसिनीं निद्रां निगृह्णन्, कर्णदेशं गतं 'कथं
 
-
 

 
पदचन्द्रिका ।
 

 
पुष्कलो महान् । पुरुषकारः पुरुषार्थः । स्मितेन हास्येन । अभिषिक्तः
सिञ्चितः । दन्तच्छद ओष्ठः । निरोष्ठ्यवर्णमोष्ठोञ्च्चा- र्यवर्णरहितम् ॥
 

 
इति श्रीदशकुमारटीकायां पचन्द्रिकाभिधायां षष्ठ उच्छ्वासः ॥
 

 
इदानीं मन्त्रगुप्तः स्वचरितं वक्तुमुपक्रमते । अत्यासन्नमतिसमीपम् । 'कान्तारं
वर्त्म दुर्गमम्' इत्यमरः । आलीढा व्याप्ता । शिखण्डजालं केशसमूहः । चलितर-
क्षसीत्यनेन रात्रिंचरत्वद्योतनम् । क्षरितनीहारे निःसृतहिमे । निलयं गृहम् ।
निलीनाः स्थिताः । साला वृक्षाः । 'वृक्षो महीरुहः सालः' इति । नेत्रनिनिंसिनीं नेत्र-

 
भूषणा ।
 

 
त्थितो देशः । निष्कलो वृद्धः । उपरन्तुं मरणं कर्तुम् ॥
 
इति श्रीशकुमार-
टीकायां भूषणाभिधायां षष्ठ उच्छ्रावासः ॥
 

 
संस्थितो मृतः । 'परेतप्रेतसंस्थिताः' इत्यमरः । सरसमार्द्रम् । नेत्रर्निनिंसिनीं
नेत्रस्पर्शिनीम् । 'णिति चुम्बने' । क्रियेत । कर्मणि संभावनायां लिङ् । यकि

 
लघुदीपिका ।
 
1
 

 
स्वयम्' (?) इति बृहत्कथायाम् । भार्गवो ज्यौतिषिकः ॥
इति षष् उच्छ्रावासः ॥