This page has not been fully proofread.

२३६
 
दशकुमारचरितम् ।
 
[सप्तमः
 
श्रुत्वा 'चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः'
इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं
चक्षुः पातयामास देवो राजवाहनः । स किल करकमलेन किंचि-
त्संवृताननो ललितवल्लभारभसद्त्तदन्तक्षतव्यसनविह्वलाधरमणिर्नि-
रोष्ठ्यवर्णमात्मचरितमाचक्षते-
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्वासः ।
 
सप्तमोच्छ्रासः ।
 
राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः
कदाचित्कलिङ्गान् । कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाह-
स्थानसंसकस्य
 
कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलय-

 
संस्तरे तले निषद्य निद्रालीढदृष्टिरशयिषि । गलति च कालरात्रि-
शिखण्डजालकान्धकारे, चलितरक्षसि क्षरितनीहारे निजनिलय-
निलीननिःशेषजने नितान्तशीते निशीथे घनतरसालशाखान्त-
रालनिदिनि नेत्रनिंसिनीं निद्रां निगृह्णन्, कर्णदेशं गतं 'कथं
 
-
 
पदचन्द्रिका ।
 
पुष्कलो महान् । पुरुषकारः पुरुषार्थः । स्मितेन हास्येन । अभिषिक्तः
सिञ्चितः । दन्तच्छद ओष्ठः । निरोष्ठ्यवर्णमोष्ठोञ्चार्यवर्णरहितम् ॥
 
इति श्रीदशकुमारटीकायां पचन्द्रिकाभिधायां षष्ठ उच्वासः ॥
 
इदानीं मन्त्रगुप्तः स्वचरितं वक्तुमुपक्रमते । अत्यासन्नमतिसमीपम् । 'कान्तारं
वर्त्म दुर्गमम्' इत्यमरः । आलीढा व्याप्ता । शिखण्डजालं केशसमूहः । चलितर-
क्षसीत्यनेन रात्रिंचरत्वद्योतनम् । क्षरितनीहारे निःसृतहिमे । निलयं गृहम् ।
निलीनाः स्थिताः । साला वृक्षाः । 'वृक्षो महीरुहः सालः' इति । नेत्रनिसिनीं नेत्र-
भूषणा ।
 
त्थितो देशः । निष्कलो वृद्धः । उपरन्तुं मरणं कर्तुम् ॥ इति श्रीशकुमार-
टीकायां भूषणाभिधायां षष्ठ उच्छ्रासः ॥
 
संस्थितो मृतः । 'परेतप्रेतसंस्थिताः' इत्यमरः । सरसमाद्रम् । नेत्रर्निसिनीं
नेत्रस्पर्शिनीम् । 'णिति चुम्बने । क्रियेत । कर्मणि संभावनायां लिङ् । यकि
लघुदीपिका ।
 
1
 
स्वयम्' (?) इति बृहत्कथायाम् । भार्गवो ज्यौतिषिकः ॥ इति षष्ट उच्छ्रासः ॥