This page has not been fully proofread.

२३४
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
कर्षन्त श्यामाकारां
 
नारीमपश्यम् । अर्थलोभातु निगृह्य
साध्वसं सा संगृहीता । शत्रिकयोरुमूले यदृच्छया किंचिदुल्लिखितम् ।
एष च नूपुरश्चरणादाक्षिप्तः । तावत्येव द्रुतगतिः सा पलायिष्ट ।
सोऽयमस्यागमः । परं भवन्तः प्रमाणम्' इति । विमर्शेन च
तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् । भर्त्रा च
परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्वष्य मर्तुकामा
तेन धूर्तेन नक्तमगृह्यत । अनुनीता च- 'सुन्दरि, त्वदाकारोन्मादितेन
मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुन-
रयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः । तत्प्रसीदान-
न्यशरणायास्मै दासजनाय' इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य
सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् । तदिदमुक्तम्-
'दुष्करसाधनं प्रज्ञा' इति ।
 
*
 
-
 
इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् । अस्मिन्नेव क्षणे नाति-
प्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बर-
तलादपतन् । अहं तु 'किं न्विदम्' इत्युच्चक्षुरालोकयन्कमपि
राक्षसं कांचिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् । कथम-
पहरत्यकामामपि स्त्रियमनाचारो नैर्ऋतः' इति गगनगमनमन्द-
शक्तिरशस्खश्चातये । स तु मत्संबन्धी ब्रह्मराक्षस: 'तिष्ठ तिष्ठ
पाप, कापहरसि' इति भर्त्सन्नुत्थाय राक्षसेन समसृज्यत । तां
तु रोषार्दनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मु-
खप्रसारितोभयकरः कराभ्यामग्रहीषम् । उपगृह्य च वेपमानां
संमीलिताक्षां मदङ्गस्पर्शसुखेनोद्भिन्नरोमाश्चां तादृशीमेव तामन -
वतारयन्नतिष्ठम् । तावत्तावुभावपि शैलशृङ्गभृङ्गैः पादपैश्च रभसो-
पदचन्द्रिका ।
 
चितायाः । चितामध्यादित्यर्थः । प्रसभं बलात् । पलायिष्ट पलायनपराभूत् । शाकि-
नीत्वं पिशाचदैवतत्वम् । ऐकमत्येन विसंवादाभावेन । पौराणां नागरिकाणाम् ।
त्वदावर्जने त्वत्संमुखीकरणे अगत्यन्तरां न विद्यते गत्यन्तरं यस्यास्ताम् । आत्म-
चश्यामात्माधीनाम् ।
 
1
 
इदमिति । पुँनागो बकुलः । उच्चक्षुरूवकृतनेत्रः । अतप्ये तापमापम् ।
अमरवृक्षः कल्पद्रुमः । अन्तरिक्षादाकाशात् । वेपमानां कम्पमानाम् ।
पाठा० - १ 'अनपेक्षया'. २ 'सुखेनेव'.