2023-08-31 13:23:56 by Lakshmainarayana achar

This page has been fully proofread twice.

क्षमामासादयिष्यति । अनुवर्तिष्यते देवीमिवात्रभवतीम् । नात्र
शङ्का कार्या इति । सा तथोक्तं व्यक्तमभ्युपेष्यति । नक्तं मां वृक्ष-
वाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि । तावतैव त्वयाहमनु-
गृहीतो भवेयम्' इति । सा तथैवोपग्राहितवती । सोऽतिप्रीतस्त-
स्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थि- [^१]काप्रयत्नेनोपनीतां पादे परामृशन्निव हेमनूपुरमेकमाक्षिप्य छुरिकयोरुमूले किंचिदालिख्य द्रुततरमपासरत् । सा तु सान्द्रत्रासा स्वमेव दुर्णयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनं सामयापदेशादपरं चापनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये । स धूर्तः 'विक्रेष्ये' इति तेन नूपुरेण तमनन्तकीर्तिमुपाससाद । स दृष्ट्वा 'मम
गृहिण्या एवैष नूपुरः, कथमयमुपलब्धस्त्वया ?" इति तमब्रुवाणं
निर्बन्धेन पप्रच्छ । स तु 'वणिग्ग्रामस्याग्रे वक्ष्यामि इति स्थितोऽभूत् । पुनरसौ गृहिण्यै 'स्वनूपुरयुगलं प्रेषय' इति संदिदेश ।
सा च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्ष-
वाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः । सोऽद्याप्य-
न्विष्टो न दृष्टः । स पुनरयं द्वितीय इत्यपरं प्राहिणोत् । अनया
च वार्तयामुं पुरस्कृत्य स वणिग्वणिग्जनसमाजमाजगाम । स
चानुयुक्तो धूर्तः सविनयमावेदयत्– 'विदितमेव खलु वः, यथाहं
युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश्च
कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि
श्मशानमधिशये । अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमा-
 
पदचन्द्रिका ।
 
तवत्यङ्गीकृतवती । निर्ग्रन्थिका भिक्षुकी । सान्द्रत्रासा निबिडभया । पटबन्धनं वस्त्रबन्धनम् । गृहिणी योषित् । नूपुरः पादभूषणम् । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । प्रशिथिलबन्धः श्लथबन्धः । पितृवनं श्मशानम् । तदुपजीवी श्मशानजीवी । मद्दर्शनभीरवो मद्दर्शनभयशीलाः । दग्धं ज्वलितम् । मृतकं शवम् ।
 
भूषणा ।
 
ईहते । 'घट चेष्टायाम्' । क्व घटते संगच्छते । वृक्षवाटिका गृहोपवनम् । गेहोपवने वृक्षवाटिका' इत्यमरः । निर्ग्रन्थिका श्रमणिका । न दृष्टो न लब्धः । स नूपुरः । दहेयुरपि । अपिः संभावनायाम् । अगत्यन्तरां गत्यन्तरशून्याम् । अन-
 
[^१]G. 'अपचारेण'.