2023-08-15 09:26:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका - भूषणा-लघुदीपिकासहितम् । २३३
 
-
 
क्षमामासादयिष्यति । अनुवर्तिष्यते देवीमिवात्रभवतीम् । नात्र

शङ्का कार्या इति । सा तथोक्तं व्यक्तमभ्युपेष्यति । नक्तं मां वृक्ष-

वाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि । तावतैव त्वयाहमनु-

गृहीतो भवेयम्' इति । सा तथैवोपमाग्राहितवती । सोऽतिप्रीतस्त-

स्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थि- [^१]काप्रय-
ब्रे
त्नेनोपनीतां पादे परामृशन्निव हेमनूपुरमेकमाक्षिप्य छुरिकयोरुमूले
किंचिदालिख्य द्रुततरमपासरत् । सा तु सान्द्रत्रासा स्वमेव
दुर्णयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां
प्रक्षाल्य दत्त्वा पटबन्धनं सामयापदेशादपरं चापनीय नूपुरं
शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये । स धूर्तः 'विक्रेष्ये'
इति तेन नूपुरेण तमनन्तकीर्तिमुपाससाद । स दृष्टा 'मम
ट्वा 'मम
गृहिण्या एवैष नूपुरः, कथमयमुपलब्धस्त्वया ?" इति तमब्रुवाणं

निर्बन्धेन पप्रच्छ । स तु 'वणिग्ग्रामस्याग्रे वक्ष्यामि इति
 
स्थितोऽभूत् । पुनरसौ गृहिण्यै 'स्वनूपुरयुगलं प्रेषय' इति संदिदेश ।

सा च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्ष-

वाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः । सोऽद्याप्य-

न्विष्टो न दृष्टः । स पुनरयं द्वितीय इत्यपरं प्राहिणोत् । अनया

च वार्तयामुं पुरस्कृत्य स वणिग्वणिग्जनसमाजमाजगाम । स

चानुयुक्तो धूर्तः सविनयमावेदयत्– 'विदितमेव खलु वः, यथाहं

युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश्

कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि

श्मशानमधिशये । अपरैर्दुरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमा-

 
पदचन्द्रिका ।
 

 
तवत्यङ्गीकृतवती । निर्ग्रन्थिका भिक्षुकी । सान्द्रत्रासा निबिडभया । पटबन्ध
नं वस्त्रबन्धनम् । गृहिणी योषित् । नूपुरः पादभूषणम् । 'मञ्जीरो नूपुरोऽस्त्रियाम्'
इत्यमरः । प्रशिथिलबन्धः श्लथबन्धः । पितृवनं श्मशानम् । तदुपजीवी श्मशान-
जीवी । मद्दर्शनभीरवो मद्दर्शनभयशीलाः । दग्धं ज्वलितम् । मृतकं शवम् ।
 

 
भूषणा ।
 

 
ईहते । 'घट चेष्टायाम्' । क्व घटते संगच्छते । वृक्षवाटिका गृहोपवनम् । गेड़ो-
होपवने वृक्षवाटिका' इत्यमरः । निर्ग्रन्थिका श्रमणिका । न दृष्टो न लब्धः । स
नूपुरः । दहेयुरपि । अपिः संभावनायाम् । अगत्यन्तरां गत्यन्तरशन्याम् । अन-
पाठा०-

 
[^
]G. 'अपचारेण'.