This page has not been fully proofread.

२३२
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
तद्गृहं प्रविश्य तां ददर्श । दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौर-
मुख्येभ्यः श्मशानरक्षामयाचत । अलभत च । तत्र लब्धैश्च शवा-
वगुण्ठनपटादिभिः कामप्यर्हन्तिकां नाम श्रमणिकामुपासांचक्रे ।
तन्मुखेन च नितम्बवतीमुंपांशु मन्त्रयामास । सा चैनां
निर्भर्त्सयन्ती प्रत्याचचक्षे । श्रमणिकामुखाच्च दुष्करशीलभ्रंशां
कुलस्त्रियमुपलभ्य रहसि दूतिकामशिक्षयत् – 'भूयोऽप्युपतिष्ठ
सार्थवाहभर्याम् । ब्रूहि चोपहरे, संसारदोषदर्शनात्समाधिमा-
स्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति
क घटते । एतदपि त्वामत्युदारया समृद्ध्या रूपेणातिमानुषेण
प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापलं स्पृष्टं न वेति
परीक्षा कृता । तुष्टास्मि तवैवमदुष्टभावतया । त्वामिदानीमुत्पन्ना-
पत्यां द्रष्टुमिच्छामि । भर्ता तु भवत्याः केनचिद्रहेणाधिष्ठितः
पाण्डुरोगदुर्बलो भोगे चासमर्थः स्थितोऽभूत् । न च शक्यं तस्य
विघ्नमप्रतिकृत्यापत्यम स्माल्लब्धुम् । अतः प्रसीद । वृक्षवाटिकामे-
काकिनी प्रविश्य मदुपनीतस्य कस्यचिन्मन्त्रवादिनश्छन्नमेव हस्ते
चरणमर्पयित्वा तदभिमन्त्रितेन प्रणयकुपिता नाम भूत्वा भर्तार-
मुरसि प्रहर्तुमर्हसि । उपर्यसावुत्तमधातुपुष्टिमूर्जितापत्योत्पादन-
पदचन्द्रिका ।
 
वैजयन्ती । निभं मिषम् । 'निभो व्याजसदृक्षयोः' इति विश्वः । दृष्टा चेति ।
अत्यारूढमन्मथोऽतिप्रवृद्धमंदनः । पौरमुख्येभ्यः पौरश्रेष्ठेभ्यः । तत्र श्मशाने ।
लब्धैः प्राप्तैः । अवगुण्ठनपटः शववेष्टितवस्त्रम् । अर्हन्तिकां बौद्धपरिव्राजि-
काम् । तन्मुखेन श्रमणिकामुखेन । उपांशु रहसि । मन्त्रयामास । मेदयामा-
सत्यर्थः । अंशो नाशः । घटत ईहते। 'घट चेष्टायाम्' । क्व घटते क्व संगच्छते।
"घट योजने' । अतिमानुषेण मानुषमतिक्रम्य वर्तत इति तथा । अदुष्टभावः
सुभावः । उत्पन्नापत्यां जातापत्याम् । भोगे विषयसङ्गे । अप्रतिकृत्य । अप्र-
वीकारं कृत्वेत्यर्थः । ऊर्जितापत्यं समीचीनापत्यम् । नक्तं रात्रौ । उपग्राहि-
भूषणा ।
 
भार्गवो ज्यौतिषिकः । 'भार्गवौ शुक्रदैवज्ञौ' । उपनिमन्त्रयामास भेदयामास । घटत
लघुदीपिका ।
 
"अलब्धभोगपर्याप्तिस्खैरिण्याश्चैव गोत्रयोः' इति । दक्षसंधे वसूर्यत्वरितं
पाठा०-१ 'उपनिमन्त्रयामास'.