2023-08-31 13:24:11 by Lakshmainarayana achar

This page has been fully proofread twice.

कलासु गणिकासु चातिरक्तः, मित्रार्थं स्वभुजमात्रनिर्व्यूढानेक-
कलह:, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः [^१]प्रत्यवात्सीत् । स चैकदा कस्यचिदागन्तोश्चित्रकरस्य हस्ते चित्रपटं ददर्श । तत्र काचिदालेख्यगता युवतिरालोकमात्रेणैव कलहकण्टकस्य कामातुरं चेतश्चकार । स च तमब्रवीत् – 'भद्र, विरुद्धमिवैतत्प्रतिभाति । यतः कुलजादुर्लभं वपुः, आभिजात्यशंसिनी च नम्रता, पाण्डुरा च मुखच्छवि:, अनतिपरिभुक्तसुभगा च तनुः, प्रौढतानुविद्धा च दृष्टिः । न चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य [^२]वेण्यादेरदर्शनात् । लक्ष्म चैतद्दक्षिणपार्श्ववर्ति । तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथार्हसंभोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्ट- मालिखिता भवितुमर्हति इति । तमभिप्रशस्याशंसत्– 'सत्यमिदम् । अवन्तिपुर्यामुज्जयिन्यामनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्यविस्मितेन मयैवमालिखिता' इति । स तदैवोन्मनायमानस्तद्दर्शनाय परिवव्राजोज्जयिनीम् । भार्गवो नाम भूत्वा [^३]भिक्षानिभेन
 
पदचन्द्रिका ।
 
चतुःषष्टिकलासु । गणिकासु वेश्यासु । स्वभुजा स्वबाहुः । 'भुजा बाहा' इति स्त्रीलिङ्गावपि शब्दौ । निर्व्यूढो दृढीकृतः । स च कलहकण्टकः । तं चित्रकारम् । भद्रेति । अभिजातस्य भाव आभिजात्यम् । 'अभिजातः कुलीनः स्यात्' इत्यमरः । पाण्डुरा शुभ्रा । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः' इत्यमरः । अन-
तिपरिभुक्ताऽलब्धातिभोगा । प्रौढतानुविद्धा प्रौढतासद्म । वेणी कचबन्धः । वेणी कचस्य बन्धे स्यान्नदीनां संगमेऽपि च ' इति विश्वः । संभोगस्यालाभोऽप्राप्तिस्तेन पीडिता । सौन्दर्यं सुन्दरस्य भावस्तथा । उन्मनायमान उन्मनायतेऽसौ तथा । परिवव्राज । अगच्छदित्यर्थः । भार्गवो ज्यौतिषिकः । 'भार्गवौ शुक्रदैवज्ञौ' इति
 
भूषणा ।
 
कुलपुत्रः शूद्रः । 'कुलपुत्रः कुलीने च शूद्रे' इति । निर्व्यूढ इति । उत्पादितानेककलहः । परिवव्राज । सर्वं‌ परित्यज्य वव्राजेत्यर्थः । लक्ष्म नखक्षतरूपं चिह्नम् ।
 
लघुदीपिका ।
 
पुत्रः शूद्रः । 'कुलपुत्रः कुलीने च शूद्रे च । नातिपरिभुक्तसुलभा अलब्धातिभोगा नारी असुलभा (?) । 'अलब्धा प्रौढनासमे' । लक्ष्म चैतद्दक्षिणपार्श्ववर्ति ।
 
[^१]G. 'परिवव्राज'.
[^२]G. 'एकवेण्यादेः'.
[^३]G. 'भिक्षामिषेण'.