2023-08-15 09:02:39 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
कलासु गणिकासु चातिरक्तः, मित्रार्थं स्वभुजमात्रनिर्व्यूढानेक-

कलह:, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः [^१]प्रत्यवात्सीत् ।
स चैकदा कस्यचिदागन्तोश्चित्रकरस्य हस्ते चित्रपटं ददर्श । तत्र
काचिदालेख्यगता युवतिरालोकमात्रेणैव कलहकण्टकस्य कामातुरं
चेतश्चकार । स च तमब्रवीत् – 'भद्र, विरुद्धमिवैतत्प्रति-
भाति । यतः कुलजादुर्लभं वपुः, आभिजात्यशंसिनी च नम्रता,
पाण्डुरा च मुखच्छवि:, अनतिपरिभुक्तसुभगा च तनुः, प्रौढतानु-
विद्धा च दृष्टिः । न चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य [^२]वेण्यादे-
रदर्शनात् । लक्ष्म चैतद्दक्षिणपार्श्ववर्ति । तदियं वृद्धस्य कस्य-
चिद्वणिजो नातिपुंस्त्वस्य यथार्हसंभोगालाभपीडिता गृहिणी त्वया-
तिकौशलाद्यथादृष्ट- मालिखिता भवितुमर्हति इति । तमभिप्रश-
स्याशंसत्– 'सत्यमिदम् । अवन्तिपुर्यामुज्जयिन्यामनन्तकीर्ति-
नाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्य-
विस्मितेन मयैवमालिखिता' इति । स तदैवोन्मनायमानस्तद्द-
र्शनाय परिवव्राजोज्जयिनीम् । भार्गवो नाम भूत्वा [^३]भिक्षानिभेन
 
२३१
 

 
पदचन्द्रिका ।
 

 
चतुःषष्टिकलासु । गणिकासु वेश्यासु । स्वभुजा स्वबाहुः । 'भुजा बाहा' इति
स्त्रीलिङ्गावपि शब्दौ । निर्व्यूढो दृढीकृतः । स च कलहकप्ण्टकः । तं चित्रकारम् ।
भद्रेति । अभिजातस्य भाव आभिजात्यम् । 'अभिजातः कुलीनः स्यात्' इत्य-
मरः । पाण्डुरा शुभ्रा । 'शुक्लशुत्भ्रशुचिश्वेतविशदश्येतपाण्डुराः' इत्यमरः । अन-

तिपरिभुक्ताऽलब्धातिभोगा । प्रौढतानुविद्धा प्रौढतासद्म । वेणी कचबन्धः । वेणी
कचस्य बन्धे स्यान्नदीनां संगमेऽपि च ' इति विश्वः । संभोगस्यालाभोऽप्राप्तिस्तेन
पीडिता । सौन्दर्यं सुन्दरस्य भावस्तथा । उन्मनायमान उन्मनायतेऽसौ तथा ।
परिवव्राज । अगच्छदित्यर्थः । भार्गवो ज्यौतिषिकः । 'भार्गवौ शुक्रदैवज्ञौ' इति
 

 
भूषणा ।
 

 
कुलपुत्रः शद्रः । 'कुलपुत्रः कुलीने च शूद्रे' इति । निर्व्यूढ इति । उत्पादिताने-
ककलहः । परिवव्राज । सर्वं‌ परित्यज्य वत्व्राजेत्यर्थः । लक्ष्म नखक्षतरूपं चिह्नम् ।

 
लघुदीपिका ।
 

 
पुत्रः शूद्रः । 'कुलपुत्रः कुलीने च शूद्रे च । नातिपरिभुक्तसुलभा अलब्धाति-
भोगा नारी असुलभा (?) । 'अलब्धा प्रौढनासमे' । लक्ष्म चैतद्दक्षिणपार्श्ववर्ति +
 
पाठा० -

 
[^
]G. 'परिवत्व्राज'.
[^
]G. 'एकवेण्यादेः'.
[^
]G. 'भिक्षामिषेण'.