2023-08-31 13:24:19 by Lakshmainarayana achar

This page has been fully proofread twice.

मूलेन महद्धनमुपार्जयत् । पौराग्रगण्यश्चासीत् । परिजनश्च भूया-
नर्थवशात्समाजगाम । ततस्तां प्रथमदासीम् 'न कर्म करोषि,
दृष्टं मुष्णासि, अप्रियं ब्रवीषि' इति परुषमुक्त्वा बह्वताडयत् ।
चेटी तु प्रसादकालोपाख्यातरहस्यस्य वृत्तान्तैकदेशमात्तरोषा
निर्बिभेद । तच्छ्रुत्वा लुब्धेन तु दण्डवाहिना पौरवृद्धसंनिधौ
'निधिपतिदत्तस्य कन्यां कनकवतीं मोषेणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः । तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयम्' इति नितरा [^१]मभर्त्सयत । भीतं च बलभद्रमभिजगाद रत्नवती - 'न भेतव्यम् । ब्रूहि, नेयं निधिपतिदत्तकन्या कनकवती । वलभ्यामेव गृहगुप्तदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा । न [^२]चेत्प्रतीथ प्रणिधिं प्रहिणुतास्या बन्धुपार्श्वम्' इति । बलभद्रस्तु तथोक्त्वा श्रेणीप्रातिभाव्येन तावदेवातिष्ठद्यावत्तत्पुरलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सहजामात्रा दुहितरमतिप्रीतः प्रत्यनैषीत् । तथा दृष्ट्वा रत्नवती कनकवतीति भावयतस्तस्यैव बलभद्रस्यातिवल्लभा जाता । तद्ब्रवीमि – 'कामो नाम संकल्पः' इति ।
तदनन्तरमसौ नितम्बवतीवृत्तान्तमप्राक्षीत् । सोऽहमब्रवम् – 'अस्ति शूरसेनेषु मथुरा नाम नगरी । तत्र कश्चित्कुलपुत्रः
 
पदचन्द्रिका ।
 
नगरम् । मूलेन मूलधनेन । उपाख्यातरहस्यस्य कथितैकान्तवृत्तस्य । दण्डवाहिना दण्डाधिकारिणा । न्यायोढा न्यायमार्गेणोढा । परिणीतेत्यर्थः । प्रणिधिः सेवकः । अस्तीति । शूरसेनेषु देशेषु । 'कुलपुत्रः कुलीने च शूद्रे च' इति वैजयन्ती । कलासु
 
भूषणा ।
 
पारः । 'वाणिज्यं तु वणिज्या स्यात्' इत्यमरः । दासी चेटी । दण्डवाहिना दण्डधारिणा । अतर्ज्यत तर्जितः । प्रत्ता दत्ता 'अच उपसर्गात्' (७।४।४७) इति तः ।
 
लघुदीपिका ।
 
दासी च' इति वैजयन्ती । दण्डवाहिना दण्डाधिकारिणा । प्रत्ता दत्ता । कुल-
 
[^१]G. 'अतर्जयत'.
[^२]G. 'प्रतीतिरस्मिन्नर्थे.